पञ्चमोऽध्यायः Adhyāya 5
Under each sūtra: Words, its words with sandhi undone. Carried, words it takes over from earlier rules, with the rule each comes from. Under, the headings whose area it falls in. A tag marks a rule that is not an ordinary operation. How to read an entry.
प्रथमः पादः Pāda prathamaḥ
- 5.1.1
प्राक् क्रीताच्छः ॥
prāk krītācchaḥ
- 5.1.2
उगवादिभ्यो यत् ॥
ugavādibhyo yat
- 5.1.3
कम्बलाच्च संज्ञायाम् ॥
kambalācca saṃjñāyām
- 5.1.4
विभाषा हविरपूपादिभ्यः ॥
vibhāṣā havirapūpādibhyaḥ
- 5.1.5
तस्मै हितम् ॥
tasmai hitam
- 5.1.6
शरीरावयवाद्यत् ॥
śarīrāvayavādyat
- 5.1.7
खलयवमाषतिलवृषब्रह्मणश्च ॥
khalayavamāṣatilavṛṣabrahmaṇaśca
- 5.1.8
अजाविभ्यां थ्यन् ॥
ajāvibhyāṃ thyan
- 5.1.9
आत्मन्विश्वजनभोगोत्तरपदात् खः ॥
ātmanviśvajanabhogottarapadāt khaḥ
- 5.1.10
सर्वपुरुषाभ्यां णढञौ ॥
sarvapuruṣābhyāṃ ṇaḍhañau
- 5.1.11
माणवचरकाभ्यां खञ् ॥
māṇavacarakābhyāṃ khañ
- 5.1.12
तदर्थं विकृतेः प्रकृतौ ॥
tadarthaṃ vikṛteḥ prakṛtau
- 5.1.13
छदिरुपधिबलेर्ढञ् ॥
chadirupadhibalerḍhañ
- 5.1.14
ऋषभोपानहोर्ञ्यः ॥
ṛṣabhopānahorñyaḥ
- 5.1.15
चर्मणोऽञ् ॥
carmaṇo'ñ
- 5.1.16
तदस्य तदस्मिन् स्यादिति ॥
tadasya tadasmin syāditi
- 5.1.17
परिखाया ढञ् ॥
parikhāyā ḍhañ
- 5.1.18
प्राग्वतेष्ठञ् ॥
prāgvateṣṭhañ
- 5.1.19
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ॥
ārhādagopucchasaṃkhyāparimāṇāṭṭhak
- 5.1.20
असमासे निष्कादिभ्यः ॥
asamāse niṣkādibhyaḥ
- 5.1.21
शताच्च ठन्यतावशते ॥
śatācca ṭhanyatāvaśate
- 5.1.22
संख्याया अतिशदन्तायाः कन् ॥
saṃkhyāyā atiśadantāyāḥ kan
- 5.1.23
वतोरिड्वा ॥
vatoriḍvā
- 5.1.24
विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् ॥
viṃśatitriṃśadbhyāṃ ḍvunnasaṃjñāyām
- 5.1.25
कंसाट्टिठन् ॥
kaṃsāṭṭiṭhan
- 5.1.26
शूर्पादञन्यतरस्याम् ॥
śūrpādañanyatarasyām
- 5.1.27
शतमानविंशतिकसहस्रवसनादण् ॥
śatamānaviṃśatikasahasravasanādaṇ
- 5.1.28
अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ॥
adhyardhapūrvadvigorlugasaṃjñāyām
- 5.1.29
विभाषा कार्षापणसहस्राभ्याम् ॥
vibhāṣā kārṣāpaṇasahasrābhyām
- 5.1.30
द्वित्रिपूर्वान्निष्कात् ॥
dvitripūrvānniṣkāt
- 5.1.31
बिस्ताच्च ॥
bistācca
- 5.1.32
विंशतिकात् खः ॥
viṃśatikāt khaḥ
- 5.1.33
खार्या ईकन् ॥
khāryā īkan
- 5.1.34
पणपादमाषशताद्यत् ॥
paṇapādamāṣaśatādyat
- 5.1.35
शाणाद्वा ॥
śāṇādvā
- 5.1.36
द्वित्रिपूर्वादण् च ॥
dvitripūrvādaṇ ca
- 5.1.37
तेन क्रीतम् ॥
tena krītam
- 5.1.38
तस्य निमित्तं संयोगोत्पातौ ॥
tasya nimittaṃ saṃyogotpātau
- 5.1.39
गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ॥
godvyaco'saṃkhyāparimāṇāśvāderyat
- 5.1.40
पुत्राच्छ च ॥
putrāccha ca
- 5.1.41
सर्वभूमिपृथिवीभ्यामणञौ ॥
sarvabhūmipṛthivībhyāmaṇañau
- 5.1.42
तस्येश्वरः ॥
tasyeśvaraḥ
- 5.1.43
तत्र विदित इति च ॥
tatra vidita iti ca
- 5.1.44
लोकसर्वलोकाट्ठञ् ॥
lokasarvalokāṭṭhañ
- 5.1.45
तस्य वापः ॥
tasya vāpaḥ
- 5.1.46
पात्रात् ष्ठन् ॥
pātrāt ṣṭhan
- 5.1.47
तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ॥
tadasmin vṛddhyāyalābhaśulkopadā dīyate
- 5.1.48
पूरणार्धाट्ठन् ॥
pūraṇārdhāṭṭhan
- 5.1.49
भागाद्यच्च ॥
bhāgādyacca
- 5.1.50
तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ॥
taddharati vahatyāvahati bhārādvaṃśādibhyaḥ
- 5.1.51
वस्नद्रव्याभ्यां ठन्कनौ ॥
vasnadravyābhyāṃ ṭhankanau
- 5.1.52
सम्भवत्यवहरति पचति ॥
sambhavatyavaharati pacati
- 5.1.53
आढकाचितपात्रात् खोऽन्यतरस्याम् ॥
āḍhakācitapātrāt kho'nyatarasyām
- 5.1.54
द्विगोः ष्ठंश्च ॥
dvigoḥ ṣṭhaṃśca
- 5.1.55
कुलिजाल्लुक्खौ च ॥
kulijāllukkhau ca
- 5.1.56
सोऽस्यांशवस्नभृतयः ॥
so'syāṃśavasnabhṛtayaḥ
- 5.1.57
तदस्य परिमाणम् ॥
tadasya parimāṇam
- 5.1.58
संख्यायाः संज्ञासंघसूत्राध्ययनेषु ॥
saṃkhyāyāḥ saṃjñāsaṃghasūtrādhyayaneṣu
- 5.1.59
पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥
paṅktiviṃśatitriṃśatcatvāriṃśatpañcāśatṣaṣṭisaptatyaśītinavatiśatam
- 5.1.60
पञ्चद्दशतौ वर्गे वा ॥
pañcaddaśatau varge vā
- 5.1.61
सप्तनोऽञ् छन्दसि ॥
saptano'ñ chandasi
- 5.1.62
त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ॥
triṃśaccatvāriṃśatorbrāhmaṇe saṃjñāyāṃ ḍaṇ
- 5.1.63
तद् अर्हति ॥
tad arhati
- 5.1.64
छेदादिभ्यो नित्यम् ॥
chedādibhyo nityam
- 5.1.65
शीर्षच्छेदाद्यच्च ॥
śīrṣacchedādyacca
- 5.1.66
दण्डादिभ्यः ॥
daṇḍādibhyaḥ
- 5.1.67
छन्दसि च ॥
chandasi ca
- 5.1.68
पात्राद्घंश्च ॥
pātrādghaṃśca
- 5.1.69
कडङ्करदक्षिणाच्छ च ॥
kaḍaṅkaradakṣiṇāccha ca
- 5.1.70
स्थालीबिलात् ॥
sthālībilāt
- 5.1.71
यज्ञर्त्विग्भ्यां घखञौ ॥
yajñartvigbhyāṃ ghakhañau
- 5.1.72
पारायणतुरायणचान्द्रायणं वर्तयति ॥
pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati
- 5.1.73
संशयमापन्नः ॥
saṃśayamāpannaḥ
- 5.1.74
योजनं गच्छति ॥
yojanaṃ gacchati
- 5.1.75
पथः ष्कन् ॥
pathaḥ ṣkan
- 5.1.76
पन्थो ण नित्यम् ॥
pantho ṇa nityam
- 5.1.77
उत्तरपथेनाहृतं च ॥
uttarapathenāhṛtaṃ ca
- 5.1.78
कालात् ॥
kālāt
- 5.1.79
तेन निर्वृत्तम् ॥
tena nirvṛttam
- 5.1.80
तमधीष्टो भृतो भूतो भावी ॥
tamadhīṣṭo bhṛto bhūto bhāvī
- 5.1.81
मासाद्वयसि यत्खञौ ॥
māsādvayasi yatkhañau
- 5.1.82
द्विगोर्यप् ॥
dvigoryap
- 5.1.83
षण्मासाण्ण्यच्च ॥
ṣaṇmāsāṇṇyacca
- 5.1.84
अवयसि ठंश्च ॥
avayasi ṭhaṃśca
- 5.1.85
समायाः खः ॥
samāyāḥ khaḥ
- 5.1.86
द्विगोर्वा ॥
dvigorvā
- 5.1.87
रात्र्यहस्संवत्सराच्च ॥
rātryahassaṃvatsarācca
- 5.1.88
वर्षाल्लुक् च ॥
varṣālluk ca
- 5.1.89
चित्तवति नित्यम् ॥
cittavati nityam
- 5.1.90
षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante
- 5.1.91
वत्सरान्ताच्छश्छन्दसि ॥
vatsarāntācchaśchandasi
- 5.1.92
सम्परिपूर्वात् ख च ॥
samparipūrvāt kha ca
- 5.1.93
तेन परिजय्यलभ्यकार्यसुकरम् ॥
tena parijayyalabhyakāryasukaram
- 5.1.94
तदस्य ब्रह्मचर्यम् ॥
tadasya brahmacaryam
- 5.1.95
तस्य च दक्षिणा यज्ञाख्येभ्यः ॥
tasya ca dakṣiṇā yajñākhyebhyaḥ
- 5.1.96
तत्र च दीयते कार्यं भववत् ॥
tatra ca dīyate kāryaṃ bhavavat
- 5.1.97
व्युष्टादिभ्योऽण् ॥
vyuṣṭādibhyo'ṇ
- 5.1.98
तेन यथाकथाचहस्ताभ्यां णयतौ ॥
tena yathākathācahastābhyāṃ ṇayatau
- 5.1.99
सम्पादिनि ॥
sampādini
- 5.1.100
कर्मवेषाद्यत् ॥
karmaveṣādyat
- 5.1.101
तस्मै प्रभवति संतापादिभ्यः ॥
tasmai prabhavati saṃtāpādibhyaḥ
- 5.1.102
योगाद्यच्च ॥
yogādyacca
- 5.1.103
कर्मण उकञ् ॥
karmaṇa ukañ
- 5.1.104
समयस्तदस्य प्राप्तम् ॥
samayastadasya prāptam
- 5.1.105
ऋतोरण् ॥
ṛtoraṇ
- 5.1.106
छन्दसि घस् ॥
chandasi ghas
- 5.1.107
कालाद्यत् ॥
kālādyat
- 5.1.108
प्रकृष्टे ठञ् ॥
prakṛṣṭe ṭhañ
- 5.1.109
प्रयोजनम् ॥
prayojanam
- 5.1.110
विशाखाषाढादण् मन्थदण्डयोः ॥
viśākhāṣāḍhādaṇ manthadaṇḍayoḥ
- 5.1.111
अनुप्रवचनादिभ्यश्छः ॥
anupravacanādibhyaśchaḥ
- 5.1.112
समापनात् सपूर्वपदात् ॥
samāpanāt sapūrvapadāt
- 5.1.113
ऐकागारिकट् चौरे ॥
aikāgārikaṭ caure
- 5.1.114
आकालिकडाद्यन्तवचने ॥
ākālikaḍādyantavacane
- 5.1.115
तेन तुल्यं क्रिया चेद्वतिः ॥
tena tulyaṃ kriyā cedvatiḥ
- 5.1.116
तत्र तस्येव ॥
tatra tasyeva
- 5.1.117
तदर्हम् ॥
tadarham
- 5.1.118
उपसर्गाच्छन्दसि धात्वर्थे ॥
upasargācchandasi dhātvarthe
- 5.1.119
तस्य भावस्त्वतलौ ॥
tasya bhāvastvatalau
- 5.1.120
आ च त्वात् ॥
ā ca tvāt
- 5.1.121
न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ॥
na nañpūrvāttatpuruṣādacaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ
- 5.1.122
पृथ्वादिभ्य इमनिज्वा ॥
pṛthvādibhya imanijvā
- 5.1.123
वर्णदृढादिभ्यः ष्यञ् च ॥
varṇadṛḍhādibhyaḥ ṣyañ ca
- 5.1.124
गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca
- 5.1.125
स्तेनाद्यन्नलोपश्च ॥
stenādyannalopaśca
- 5.1.126
सख्युर्यः ॥
sakhyuryaḥ
- 5.1.127
कपिज्ञात्योर्ढक् ॥
kapijñātyorḍhak
- 5.1.128
पत्यन्तपुरोहितादिभ्यो यक् ॥
patyantapurohitādibhyo yak
- 5.1.129
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥
prāṇabhṛjjātivayovacanodgātrādibhyo'ñ
- 5.1.130
हायनान्तयुवादिभ्योऽण् ॥
hāyanāntayuvādibhyo'ṇ
- 5.1.131
इगन्ताच्च लघुपूर्वात् ॥
igantācca laghupūrvāt
- 5.1.132
योपधाद्गुरूपोत्तमाद्वुञ् ॥
yopadhādgurūpottamādvuñ
- 5.1.133
द्वन्द्वमनोज्ञादिभ्यश्च ॥
dvandvamanojñādibhyaśca
- 5.1.134
गोत्रचरणाच्श्लाघात्याकारतदवेतेषु ॥
gotracaraṇācślāghātyākāratadaveteṣu
- 5.1.135
होत्राभ्यश्छः ॥
hotrābhyaśchaḥ
- 5.1.136
ब्रह्मणस्त्वः ॥
brahmaṇastvaḥ
द्वितीयः पादः Pāda dvitīyaḥ
- 5.2.1
धान्यानां भवने क्षेत्रे खञ् ॥
dhānyānāṃ bhavane kṣetre khañ
- 5.2.2
व्रीहिशाल्योर्ढक् ॥
vrīhiśālyorḍhak
- 5.2.3
यवयवकषष्टिकाद्यत् ॥
yavayavakaṣaṣṭikādyat
- 5.2.4
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः ॥
vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ
- 5.2.5
सर्वचर्मणः कृतः खखञौ ॥
sarvacarmaṇaḥ kṛtaḥ khakhañau
- 5.2.6
यथामुखसंमुखस्य दर्शनः खः ॥
yathāmukhasaṃmukhasya darśanaḥ khaḥ
- 5.2.7
तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥
tatsarvādeḥ pathyaṅgakarmapatrapātraṃ vyāpnoti
- 5.2.8
आप्रपदं प्राप्नोति ॥
āprapadaṃ prāpnoti
- 5.2.9
अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ॥
anupadasarvānnāyānayaṃ baddhābhakṣayatineyeṣu
- 5.2.10
परोवरपरम्परपुत्रपौत्रमनुभवति ॥
parovaraparamparaputrapautramanubhavati
- 5.2.11
अवारपारात्यन्तानुकामं गामी ॥
avārapārātyantānukāmaṃ gāmī
- 5.2.12
समांसमां विजायते ॥
samāṃsamāṃ vijāyate
- 5.2.13
अद्यश्वीनाऽवष्टब्धे ॥
adyaśvīnā'vaṣṭabdhe
- 5.2.14
आगवीनः ॥
āgavīnaḥ
- 5.2.15
अनुग्वलंगामी ॥
anugvalaṃgāmī
- 5.2.16
अध्वनो यत्खौ ॥
adhvano yatkhau
- 5.2.17
अभ्यमित्राच्छ च ॥
abhyamitrāccha ca
- 5.2.18
गोष्ठात् खञ् भूतपूर्वे ॥
goṣṭhāt khañ bhūtapūrve
- 5.2.19
अश्वस्यैकाहगमः ॥
aśvasyaikāhagamaḥ
- 5.2.20
शालीनकौपीने अधृष्टाकार्ययोः ॥
śālīnakaupīne adhṛṣṭākāryayoḥ
- 5.2.21
व्रातेन जीवति ॥
vrātena jīvati
- 5.2.22
साप्तपदीनं सख्यम् ॥
sāptapadīnaṃ sakhyam
- 5.2.23
हैयंगवीनं संज्ञायाम् ॥
haiyaṃgavīnaṃ saṃjñāyām
- 5.2.24
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥
tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau
- 5.2.25
पक्षात्तिः ॥
pakṣāttiḥ
- 5.2.26
तेन वित्तश्चुञ्चुप्चणपौ ॥
tena vittaścuñcupcaṇapau
- 5.2.27
विनञ्भ्यां नानाञौ नसह ॥
vinañbhyāṃ nānāñau nasaha
- 5.2.28
वेः शालच्छङ्कटचौ ॥
veḥ śālacchaṅkaṭacau
- 5.2.29
सम्प्रोदश्च कटच् ॥
samprodaśca kaṭac
- 5.2.30
अवात् कुटारच्च ॥
avāt kuṭāracca
- 5.2.31
नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ॥
nate nāsikāyāḥ saṃjñāyāṃ ṭīṭañnāṭajbhraṭacaḥ
- 5.2.32
नेर्बिडज्बिरीसचौ ॥
nerbiḍajbirīsacau
- 5.2.33
इनच्पिटच्चिकचि च ॥
inacpiṭaccikaci ca
- 5.2.34
उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥
upādhibhyāṃ tyakannāsannārūḍhayoḥ
- 5.2.35
कर्मणि घटोऽठच् ॥
karmaṇi ghaṭo'ṭhac
- 5.2.36
तदस्य संजातं तारकादिभ्य इतच् ॥
tadasya saṃjātaṃ tārakādibhya itac
- 5.2.37
प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥
pramāṇe dvayasajdaghnañmātracaḥ
- 5.2.38
पुरुषहस्तिभ्यामण् च ॥
puruṣahastibhyāmaṇ ca
- 5.2.39
यद्तदेतेभ्यः परिमाणे वतुप् ॥
yadtadetebhyaḥ parimāṇe vatup
- 5.2.40
किमिदंभ्यां वो घः ॥
kimidaṃbhyāṃ vo ghaḥ
- 5.2.41
किमः संख्यापरिमाणे डति च ॥
kimaḥ saṃkhyāparimāṇe ḍati ca
- 5.2.42
संख्याया अवयवे तयप् ॥
saṃkhyāyā avayave tayap
- 5.2.43
द्वित्रिभ्यां तयस्यायज्वा ॥
dvitribhyāṃ tayasyāyajvā
- 5.2.44
उभादुदात्तो नित्यम् ॥
ubhādudātto nityam
- 5.2.45
तदस्मिन्नधिकमिति दशान्ताड्डः ॥
tadasminnadhikamiti daśāntāḍḍaḥ
- 5.2.46
शदन्तविंशतेश्च ॥
śadantaviṃśateśca
- 5.2.47
संख्याया गुणस्य निमाने मयट् ॥
saṃkhyāyā guṇasya nimāne mayaṭ
- 5.2.48
तस्य पूरणे डट् ॥
tasya pūraṇe ḍaṭ
- 5.2.49
नान्तादसंख्यादेर्मट् ॥
nāntādasaṃkhyādermaṭ
- 5.2.50
थट् चच्छन्दसि ॥
thaṭ cacchandasi
- 5.2.51
षट्कतिकतिपयचतुरां थुक् ॥
ṣaṭkatikatipayacaturāṃ thuk
- 5.2.52
बहुपूगगणसंघस्य तिथुक् ॥
bahupūgagaṇasaṃghasya tithuk
- 5.2.53
वतोरिथुक् ॥
vatorithuk
- 5.2.54
द्वेस्तीयः ॥
dvestīyaḥ
- 5.2.55
त्रेः सम्प्रसारणं च ॥
treḥ samprasāraṇaṃ ca
- 5.2.56
विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥
viṃśatyādibhyastamaḍanyatarasyām
- 5.2.57
नित्यं शतादिमासार्धमाससंवत्सराच्च ॥
nityaṃ śatādimāsārdhamāsasaṃvatsarācca
- 5.2.58
षष्ट्यादेश्चासंख्यादेः ॥
ṣaṣṭyādeścāsaṃkhyādeḥ
- 5.2.59
मतौ छः सूक्तसाम्नोः ॥
matau chaḥ sūktasāmnoḥ
- 5.2.60
अध्यायानुवाकयोर्लुक् ॥
adhyāyānuvākayorluk
- 5.2.61
विमुक्तादिभ्योऽण् ॥
vimuktādibhyo'ṇ
- 5.2.62
गोषदादिभ्यो वुन् ॥
goṣadādibhyo vun
- 5.2.63
तत्र कुशलः पथः ॥
tatra kuśalaḥ pathaḥ
- 5.2.64
आकर्षादिभ्यः कन् ॥
ākarṣādibhyaḥ kan
- 5.2.65
धनहिरण्यात् कामे ॥
dhanahiraṇyāt kāme
- 5.2.66
स्वाङ्गेभ्यः प्रसिते ॥
svāṅgebhyaḥ prasite
- 5.2.67
उदराट्ठगाद्यूने ॥
udarāṭṭhagādyūne
- 5.2.68
सस्येन परिजातः ॥
sasyena parijātaḥ
- 5.2.69
अंशं हारी ॥
aṃśaṃ hārī
- 5.2.70
तन्त्रादचिरापहृते ॥
tantrādacirāpahṛte
- 5.2.71
ब्राह्मणकोष्णिके संज्ञायाम् ॥
brāhmaṇakoṣṇike saṃjñāyām
- 5.2.72
शीतोष्णाभ्यां कारिणि ॥
śītoṣṇābhyāṃ kāriṇi
- 5.2.73
अधिकम् ॥
adhikam
- 5.2.74
अनुकाभिकाभीकः कमिता ॥
anukābhikābhīkaḥ kamitā
- 5.2.75
पार्श्वेनान्विच्छति ॥
pārśvenānvicchati
- 5.2.76
अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau
- 5.2.77
तावतिथं ग्रहणमिति लुग्वा ॥
tāvatithaṃ grahaṇamiti lugvā
- 5.2.78
स एषां ग्रामणीः ॥
sa eṣāṃ grāmaṇīḥ
- 5.2.79
शृङ्खलमस्य बन्धनं करभे ॥
śṛṅkhalamasya bandhanaṃ karabhe
- 5.2.80
उत्क उन्मनाः ॥
utka unmanāḥ
- 5.2.81
कालप्रयोजनाद्रोगे ॥
kālaprayojanādroge
- 5.2.82
तदस्मिन्नन्नं प्राये संज्ञायाम् ॥
tadasminnannaṃ prāye saṃjñāyām
- 5.2.83
कुल्माषादञ् ॥
kulmāṣādañ
- 5.2.84
श्रोत्रियंश्छन्दोऽधीते ॥
śrotriyaṃśchando'dhīte
- 5.2.85
श्राद्धमनेन भुक्तमिनिठनौ ॥
śrāddhamanena bhuktaminiṭhanau
- 5.2.86
पूर्वादिनिः ॥
pūrvādiniḥ
- 5.2.87
सपूर्वाच्च ॥
sapūrvācca
- 5.2.88
इष्टादिभ्यश्च ॥
iṣṭādibhyaśca
- 5.2.89
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥
chandasi paripanthiparipariṇau paryavasthātari
- 5.2.90
अनुपद्यन्वेष्टा ॥
anupadyanveṣṭā
- 5.2.91
साक्षाद्द्रष्टरि संज्ञायाम् ॥
sākṣāddraṣṭari saṃjñāyām
- 5.2.92
क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥
kṣetriyac parakṣetre cikitsyaḥ
- 5.2.93
इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥
indriyamindraliṃgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattamiti vā
- 5.2.94
तदस्यास्त्यस्मिन्निति मतुप् ॥
tadasyāstyasminniti matup
- 5.2.95
रसादिभ्यश्च ॥
rasādibhyaśca
- 5.2.96
प्राणिस्थादातो लजन्यतरस्याम् ॥
prāṇisthādāto lajanyatarasyām
- 5.2.97
सिध्मादिभ्यश्च ॥
sidhmādibhyaśca
- 5.2.98
वत्सांसाभ्यां कामबले ॥
vatsāṃsābhyāṃ kāmabale
- 5.2.99
फेनादिलच् च ॥
phenādilac ca
- 5.2.100
लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥
lomādipāmādipicchādibhyaḥ śanelacaḥ
- 5.2.101
प्रज्ञाश्रद्धार्चाभ्यो णः ॥
prajñāśraddhārcābhyo ṇaḥ
- 5.2.102
तपःसहस्राभ्यां विनीनी ॥
tapaḥsahasrābhyāṃ vinīnī
- 5.2.103
अण् च ॥
aṇ ca
- 5.2.104
सिकताशर्कराभ्यां च ॥
sikatāśarkarābhyāṃ ca
- 5.2.105
देशे लुबिलचौ च ॥
deśe lubilacau ca
- 5.2.106
दन्त उन्नत उरच् ॥
danta unnata urac
- 5.2.107
ऊषसुषिमुष्कमधो रः ॥
ūṣasuṣimuṣkamadho raḥ
- 5.2.108
द्युद्रुभ्यां मः ॥
dyudrubhyāṃ maḥ
- 5.2.109
केशाद्वोऽन्यतरस्याम् ॥
keśādvo'nyatarasyām
- 5.2.110
गाण्ड्यजगात् संज्ञायाम् ॥
gāṇḍyajagāt saṃjñāyām
- 5.2.111
काण्डाण्डादीरन्नीरचौ ॥
kāṇḍāṇḍādīrannīracau
- 5.2.112
रजःकृष्यासुतिपरिषदो वलच् ॥
rajaḥkṛṣyāsutipariṣado valac
- 5.2.113
दन्तशिखात् संज्ञायाम् ॥
dantaśikhāt saṃjñāyām
- 5.2.114
ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः ॥
jyotsnātamisrāśṛṅgiṇorjasvinnūrjasvalagominmalinamalīmasāḥ
- 5.2.115
अत इनिठनौ ॥
ata iniṭhanau
- 5.2.116
व्रीह्यादिभ्यश्च ॥
vrīhyādibhyaśca
- 5.2.117
तुन्दादिभ्य इलच् च ॥
tundādibhya ilac ca
- 5.2.118
एकगोपूर्वाट्ठञ् नित्यम् ॥
ekagopūrvāṭṭhañ nityam
- 5.2.119
शतसहस्रान्ताच्च निष्कात् ॥
śatasahasrāntācca niṣkāt
- 5.2.120
रूपादाहतप्रशंसयोर्यप् ॥
rūpādāhatapraśaṃsayoryap
- 5.2.121
अस्मायामेधास्रजो विनिः ॥
asmāyāmedhāsrajo viniḥ
- 5.2.122
बहुलं छन्दसि ॥
bahulaṃ chandasi
- 5.2.123
ऊर्णाया युस् ॥
ūrṇāyā yus
- 5.2.124
वाचो ग्मिनिः ॥
vāco gminiḥ
- 5.2.125
आलजाटचौ बहुभाषिणि ॥
ālajāṭacau bahubhāṣiṇi
- 5.2.126
स्वामिन्नैश्वर्ये ॥
svāminnaiśvarye
- 5.2.127
अर्शआदिभ्योऽच् ॥
arśaādibhyo'c
- 5.2.128
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः ॥
dvandvopatāpagarhyāt prāṇisthādiniḥ
- 5.2.129
वातातिसाराभ्यां कुक् च ॥
vātātisārābhyāṃ kuk ca
- 5.2.130
वयसि पूरणात् ॥
vayasi pūraṇāt
- 5.2.131
सुखादिभ्यश्च ॥
sukhādibhyaśca
- 5.2.132
धर्मशीलवर्णान्ताच्च ॥
dharmaśīlavarṇāntācca
- 5.2.133
हस्ताज्जातौ ॥
hastājjātau
- 5.2.134
वर्णाद्ब्रह्मचारिणि ॥
varṇādbrahmacāriṇi
- 5.2.135
पुष्करादिभ्यो देशे ॥
puṣkarādibhyo deśe
- 5.2.136
बलादिभ्यो मतुबन्यतरस्याम् ॥
balādibhyo matubanyatarasyām
- 5.2.137
संज्ञायां मन्माभ्याम् ॥
saṃjñāyāṃ manmābhyām
- 5.2.138
कंशंभ्यां बभयुस्तितुतयसः ॥
kaṃśaṃbhyāṃ babhayustitutayasaḥ
- 5.2.139
तुन्दिवलिवटेर्भः ॥
tundivalivaṭerbhaḥ
- 5.2.140
अहंशुभमोर्युस् ॥
ahaṃśubhamoryus
तृतीयः पादः Pāda tṛtīyaḥ
- 5.3.1
प्राग्दिशो विभक्तिः ॥
prāgdiśo vibhaktiḥ
- 5.3.2
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥
kiṃsarvanāmabahubhyo'dvyādibhyaḥ
- 5.3.3
इदम इश् ॥
idama iś
- 5.3.4
एतेतौ रथोः ॥
etetau rathoḥ
- 5.3.5
एतदोऽन् ॥
etado'n
- 5.3.6
सर्वस्य सोऽन्यतरस्यां दि ॥
sarvasya so'nyatarasyāṃ di
- 5.3.7
पञ्चम्यास्तसिल् ॥
pañcamyāstasil
- 5.3.8
तसेश्च ॥
taseśca
- 5.3.9
पर्यभिभ्यां च ॥
paryabhibhyāṃ ca
- 5.3.10
सप्तम्यास्त्रल् ॥
saptamyāstral
- 5.3.11
इदमो हः ॥
idamo haḥ
- 5.3.12
किमोऽत् ॥
kimo't
- 5.3.13
वा ह च च्छन्दसि ॥
vā ha ca cchandasi
- 5.3.14
इतराभ्योऽपि दृश्यन्ते ॥
itarābhyo'pi dṛśyante
- 5.3.15
सर्वैकान्यकिंयत्तदः काले दा ॥
sarvaikānyakiṃyattadaḥ kāle dā
- 5.3.16
इदमो र्हिल् ॥
idamo rhil
- 5.3.17
अधुना ॥
adhunā
- 5.3.18
दानीं च ॥
dānīṃ ca
- 5.3.19
तदो दा च ॥
tado dā ca
- 5.3.20
तयोर्दार्हिलौ च च्छन्दसि ॥
tayordārhilau ca cchandasi
- 5.3.21
अनद्यतने र्हिलन्यतरस्याम् ॥
anadyatane rhilanyatarasyām
- 5.3.22
सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥
sadyaḥparutparāryaiṣamaḥparedyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ
- 5.3.23
प्रकारवचने थाल् ॥
prakāravacane thāl
- 5.3.24
इदमस्थमुः ॥
idamasthamuḥ
- 5.3.25
किमश्च ॥
kimaśca
- 5.3.26
था हेतौ च च्छन्दसि ॥
thā hetau ca cchandasi
- 5.3.27
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥
dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣvastātiḥ
- 5.3.28
दक्षिणोत्तराभ्यामतसुच् ॥
dakṣiṇottarābhyāmatasuc
- 5.3.29
विभाषा परावराभ्याम् ॥
vibhāṣā parāvarābhyām
- 5.3.30
अञ्चेर्लुक् ॥
añcerluk
- 5.3.31
उपर्युपरिष्टात् ॥
uparyupariṣṭāt
- 5.3.32
पश्चात् ॥
paścāt
- 5.3.33
पश्च पश्चा च च्छन्दसि ॥
paśca paścā ca cchandasi
- 5.3.34
उत्तराधरदक्षिणादातिः ॥
uttarādharadakṣiṇādātiḥ
- 5.3.35
एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥
enabanyatarasyāmadūre'pañcamyāḥ
- 5.3.36
दक्षिणादाच् ॥
dakṣiṇādāc
- 5.3.37
आहि च दूरे ॥
āhi ca dūre
- 5.3.38
उत्तराच्च ॥
uttarācca
- 5.3.39
पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥
pūrvādharāvarāṇāmasi puradhavaścaiṣām
- 5.3.40
अस्ताति च ॥
astāti ca
- 5.3.41
विभाषावरस्य ॥
vibhāṣāvarasya
- 5.3.42
संख्याया विधार्थे धा ॥
saṃkhyāyā vidhārthe dhā
- 5.3.43
अधिकरणविचाले च ॥
adhikaraṇavicāle ca
- 5.3.44
एकाद्धो ध्यमुञन्यतरस्याम् ॥
ekāddho dhyamuñanyatarasyām
- 5.3.45
द्वित्र्योश्च धमुञ् ॥
dvitryośca dhamuñ
- 5.3.46
एधाच्च ॥
edhācca
- 5.3.47
याप्ये पाशप् ॥
yāpye pāśap
- 5.3.48
पूरणाद्भागे तीयादन् ॥
pūraṇādbhāge tīyādan
- 5.3.49
प्रागेकादशभ्योऽच्छन्दसि ॥
prāgekādaśabhyo'cchandasi
- 5.3.50
षष्ठाष्टमाभ्यां ञ च ॥
ṣaṣṭhāṣṭamābhyāṃ ña ca
- 5.3.51
मानपश्वङ्गयोः कन्लुकौ च ॥
mānapaśvaṅgayoḥ kanlukau ca
- 5.3.52
एकादाकिनिच्चासहाये ॥
ekādākiniccāsahāye
- 5.3.53
भूतपूर्वे चरट् ॥
bhūtapūrve caraṭ
- 5.3.54
षष्ठ्या रूप्य च ॥
ṣaṣṭhyā rūpya ca
- 5.3.55
अतिशायने तमबिष्ठनौ ॥
atiśāyane tamabiṣṭhanau
- 5.3.56
तिङश्च ॥
tiṅaśca
- 5.3.57
द्विवचनविभज्योपपदे तरबीयसुनौ ॥
dvivacanavibhajyopapade tarabīyasunau
- 5.3.58
अजादी गुणवचनादेव ॥
ajādī guṇavacanādeva
- 5.3.59
तुश्छन्दसि ॥
tuśchandasi
- 5.3.60
प्रशस्यस्य श्रः ॥
praśasyasya śraḥ
- 5.3.61
ज्य च ॥
jya ca
- 5.3.62
वृद्धस्य च ॥
vṛddhasya ca
- 5.3.63
अन्तिकबाढयोर्नेदसाधौ ॥
antikabāḍhayornedasādhau
- 5.3.64
युवाल्पयोः कनन्यतरस्याम् ॥
yuvālpayoḥ kananyatarasyām
- 5.3.65
विन्मतोर्लुक् ॥
vinmatorluk
- 5.3.66
प्रशंसायां रूपप् ॥
praśaṃsāyāṃ rūpap
- 5.3.67
ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥
īṣadasamāptau kalpabdeśyadeśīyaraḥ
- 5.3.68
विभाषा सुपो बहुच् पुरस्तात्तु ॥
vibhāṣā supo bahuc purastāttu
- 5.3.69
प्रकारवचने जातीयर् ॥
prakāravacane jātīyar
- 5.3.70
प्रागिवात्कः ॥
prāgivātkaḥ
- 5.3.71
अव्ययसर्वनाम्नामकच् प्राक् टेः ॥
avyayasarvanāmnāmakac prāk ṭeḥ
- 5.3.72
कस्य च दः ॥
kasya ca daḥ
- 5.3.73
अज्ञाते ॥
ajñāte
- 5.3.74
कुत्सिते ॥
kutsite
- 5.3.75
संज्ञायां कन् ॥
saṃjñāyāṃ kan
- 5.3.76
अनुकम्पायाम् ॥
anukampāyām
- 5.3.77
नीतौ च तद्युक्तात् ॥
nītau ca tadyuktāt
- 5.3.78
बह्वचो मनुष्यनाम्नष्ठज्वा ॥
bahvaco manuṣyanāmnaṣṭhajvā
- 5.3.79
घनिलचौ च ॥
ghanilacau ca
- 5.3.80
प्राचामुपादेरडज्वुचौ च ॥
prācāmupāderaḍajvucau ca
- 5.3.81
जातिनाम्नः कन् ॥
jātināmnaḥ kan
- 5.3.82
अजिनान्तस्योत्तरपदलोपश्च ॥
ajināntasyottarapadalopaśca
- 5.3.83
ठाजादावूर्ध्वं द्वितीयादचः ॥
ṭhājādāvūrdhvaṃ dvitīyādacaḥ
- 5.3.84
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥
śevalasupariviśālavaruṇāryamādīnāṃ tṛtīyāt
- 5.3.85
अल्पे ॥
alpe
- 5.3.86
ह्रस्वे ॥
hrasve
- 5.3.87
संज्ञायां कन् ॥
saṃjñāyāṃ kan
- 5.3.88
कुटीशमीशुण्डाभ्यो रः ॥
kuṭīśamīśuṇḍābhyo raḥ
- 5.3.89
कुत्वा डुपच् ॥
kutvā ḍupac
- 5.3.90
कासूगोणीभ्यां ष्टरच् ॥
kāsūgoṇībhyāṃ ṣṭarac
- 5.3.91
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥
vatsokṣāśvarṣabhebhyaśca tanutve
- 5.3.92
किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ॥
kiṃyattado nirddhāraṇe dvayorekasya ḍatarac
- 5.3.93
वा बहूनां जातिपरिप्रश्ने डतमच् ॥
vā bahūnāṃ jātiparipraśne ḍatamac
- 5.3.94
एकाच्च प्राचाम् ॥
ekācca prācām
- 5.3.95
अवक्षेपणे कन् ॥
avakṣepaṇe kan
- 5.3.96
इवे प्रतिकृतौ ॥
ive pratikṛtau
- 5.3.97
संज्ञायां च ॥
saṃjñāyāṃ ca
- 5.3.98
लुम्मनुष्ये ॥
lummanuṣye
- 5.3.99
जीविकार्थे चापण्ये ॥
jīvikārthe cāpaṇye
- 5.3.100
देवपथादिभ्यश्च ॥
devapathādibhyaśca
- 5.3.101
वस्तेर्ढञ् ॥
vasterḍhañ
- 5.3.102
शिलाया ढः ॥
śilāyā ḍhaḥ
- 5.3.103
शाखादिभ्यो यत् ॥
śākhādibhyo yat
- 5.3.104
द्रव्यं च भव्ये ॥
dravyaṃ ca bhavye
- 5.3.105
कुशाग्राच्छः ॥
kuśāgrācchaḥ
- 5.3.106
समासाच्च तद्विषयात् ॥
samāsācca tadviṣayāt
- 5.3.107
शर्करादिभ्योऽण् ॥
śarkarādibhyo'ṇ
- 5.3.108
अङ्गुल्यादिभ्यष्ठक् ॥
aṅgulyādibhyaṣṭhak
- 5.3.109
एकशालायाष्ठजन्यतरस्याम् ॥
ekaśālāyāṣṭhajanyatarasyām
- 5.3.110
कर्कलोहितादीकक् ॥
karkalohitādīkak
- 5.3.111
प्रत्नपूर्वविश्वेमात्थाल् छन्दसि ॥
pratnapūrvaviśvemātthāl chandasi
- 5.3.112
पूगाञ्ञ्योऽग्रामणीपूर्वात् ॥
pūgāññyo'grāmaṇīpūrvāt
- 5.3.113
व्रातच्फञोरस्त्रियाम् ॥
vrātacphañorastriyām
- 5.3.114
आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् ॥
āyudhajīvisaṃghāññyaḍvāhīkeṣvabrāhmaṇarājanyāt
- 5.3.115
वृकाट्टेण्यण् ॥
vṛkāṭṭeṇyaṇ
- 5.3.116
दामन्यादित्रिगर्तषष्ठाच्छः ॥
dāmanyāditrigartaṣaṣṭhācchaḥ
- 5.3.117
पर्श्वादियौधेयादिभ्यामणञौ ॥
parśvādiyaudheyādibhyāmaṇañau
- 5.3.118
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् ॥
abhijidvidabhṛcchālāvacchikhāvacchamīvadūrṇāvacchrumadaṇo yañ
- 5.3.119
ञ्यादयस्तद्राजाः ॥
ñyādayastadrājāḥ
चतुर्थः पादः Pāda caturthaḥ
- 5.4.1
पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च ॥
pādaśatasya saṃkhyādervīpsāyāṃ vun lopaśca
- 5.4.2
दण्डव्यवसर्गयोश्च ॥
daṇḍavyavasargayośca
- 5.4.3
स्थूलादिभ्यः प्रकारवचने कन् ॥
sthūlādibhyaḥ prakāravacane kan
- 5.4.4
अनत्यन्तगतौ क्तात् ॥
anatyantagatau ktāt
- 5.4.5
न सामिवचने ॥
na sāmivacane
- 5.4.6
बृहत्या आच्छादने ॥
bṛhatyā ācchādane
- 5.4.7
अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः ॥
aṣaḍakṣāśitaṅgvalaṃkarmālampuruṣādhyuttarapadāt khaḥ
- 5.4.8
विभाषा अञ्चेरदिक्स्त्रियाम् ॥
vibhāṣā añceradikstriyām
- 5.4.9
जात्यन्ताच्छ बन्धुनि ॥
jātyantāccha bandhuni
- 5.4.10
स्थानान्ताद्विभाषा सस्थानेनेति चेत् ॥
sthānāntādvibhāṣā sasthāneneti cet
- 5.4.11
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ॥
kimettiṅavyayaghādāmvadravyaprakarṣe
- 5.4.12
अमु च च्छन्दसि ॥
amu ca cchandasi
- 5.4.13
अनुगादिनष्ठक् ॥
anugādinaṣṭhak
- 5.4.14
णचः स्त्रियामञ् ॥
ṇacaḥ striyāmañ
- 5.4.15
अणिनुणः ॥
aṇinuṇaḥ
- 5.4.16
विसारिणो मत्स्ये ॥
visāriṇo matsye
- 5.4.17
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥
saṃkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc
- 5.4.18
द्वित्रिचतुर्भ्यः सुच् ॥
dvitricaturbhyaḥ suc
- 5.4.19
एकस्य सकृच्च ॥
ekasya sakṛcca
- 5.4.20
विभाषा बहोर्धाविप्रकृष्टकाले ॥
vibhāṣā bahordhāviprakṛṣṭakāle
- 5.4.21
तत्प्रकृतवचने मयट् ॥
tatprakṛtavacane mayaṭ
- 5.4.22
समूहवच्च बहुषु ॥
samūhavacca bahuṣu
- 5.4.23
अनन्तावसथेतिहभेषजाञ्ञ्यः ॥
anantāvasathetihabheṣajāññyaḥ
- 5.4.24
देवतान्तात्तादर्थ्ये यत् ॥
devatāntāttādarthye yat
- 5.4.25
पादार्घाभ्यां च ॥
pādārghābhyāṃ ca
- 5.4.26
अतिथेर्ञ्यः ॥
atitherñyaḥ
- 5.4.27
देवात्तल् ॥
devāttal
- 5.4.28
अवेः कः ॥
aveḥ kaḥ
- 5.4.29
यावादिभ्यः कन् ॥
yāvādibhyaḥ kan
- 5.4.30
लोहितान्मणौ ॥
lohitānmaṇau
- 5.4.31
वर्णे चानित्ये ॥
varṇe cānitye
- 5.4.32
रक्ते ॥
rakte
- 5.4.33
कालाच्च ॥
kālācca
- 5.4.34
विनयादिभ्यष्ठक् ॥
vinayādibhyaṣṭhak
- 5.4.35
वाचो व्याहृतार्थायाम् ॥
vāco vyāhṛtārthāyām
- 5.4.36
तद्युक्तात् कर्मणोऽण् ॥
tadyuktāt karmaṇo'ṇ
- 5.4.37
ओषधेरजातौ ॥
oṣadherajātau
- 5.4.38
प्रज्ञादिभ्यश्च ॥
prajñādibhyaśca
- 5.4.39
मृदस्तिकन् ॥
mṛdastikan
- 5.4.40
सस्नौ प्रशंसायाम् ॥
sasnau praśaṃsāyām
- 5.4.41
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ॥
vṛkajyeṣṭhābhyāṃ tiltātilau ca cchandasi
- 5.4.42
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ॥
bahvalpārthācchas kārakādanyatarasyām
- 5.4.43
संख्यैकवचनाच्च वीप्सायाम् ॥
saṃkhyaikavacanācca vīpsāyām
- 5.4.44
प्रतियोगे पञ्चम्यास्तसिः ॥
pratiyoge pañcamyāstasiḥ
- 5.4.45
अपादाने चाहीयरुहोः ॥
apādāne cāhīyaruhoḥ
- 5.4.46
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥
atigrahāvyathanakṣepeṣvakartari tṛtīyāyāḥ
- 5.4.47
हीयमानपापयोगाच्च ॥
hīyamānapāpayogācca
- 5.4.48
षष्ठ्या व्याश्रये ॥
ṣaṣṭhyā vyāśraye
- 5.4.49
रोगाच्चापनयने ॥
rogāccāpanayane
- 5.4.50
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ॥
abhūtatadbhāve kṛbhvastiyoge sampadyakartari cviḥ
- 5.4.51
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥
arurmanaścakṣuścetorahorajasāṃ lopaśca
- 5.4.52
विभाषा साति कार्त्स्न्ये ॥
vibhāṣā sāti kārtsnye
- 5.4.53
अभिविधौ सम्पदा च ॥
abhividhau sampadā ca
- 5.4.54
तदधीनवचने ॥
tadadhīnavacane
- 5.4.55
देये त्रा च ॥
deye trā ca
- 5.4.56
देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥
devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyorbahulam
- 5.4.57
अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ॥
avyaktānukaraṇāddvyajavarārdhādanitau ḍāc
- 5.4.58
कृञो द्वितीयतृतीयशम्बबीजात् कृषौ ॥
kṛño dvitīyatṛtīyaśambabījāt kṛṣau
- 5.4.59
संख्यायाश्च गुणान्तायाः ॥
saṃkhyāyāśca guṇāntāyāḥ
- 5.4.60
समयाच्च यापनायाम् ॥
samayācca yāpanāyām
- 5.4.61
सपत्त्रनिष्पत्रादतिव्यथने ॥
sapattraniṣpatrādativyathane
- 5.4.62
निष्कुलान्निष्कोषणे ॥
niṣkulānniṣkoṣaṇe
- 5.4.63
सुखप्रियादानुलोम्ये ॥
sukhapriyādānulomye
- 5.4.64
दुःखात् प्रातिलोम्ये ॥
duḥkhāt prātilomye
- 5.4.65
शूलात् पाके ॥
śūlāt pāke
- 5.4.66
सत्यादशपथे ॥
satyādaśapathe
- 5.4.67
मद्रात् परिवापणे ॥
madrāt parivāpaṇe
- 5.4.68
समासान्ताः ॥
samāsāntāḥ
- 5.4.69
न पूजनात् ॥
na pūjanāt
- 5.4.70
किमः क्षेपे ॥
kimaḥ kṣepe
- 5.4.71
नञस्तत्पुरुषात् ॥
nañastatpuruṣāt
- 5.4.72
पथो विभाषा ॥
patho vibhāṣā
- 5.4.73
बहुव्रीहौ संख्येये डजबहुगणात् ॥
bahuvrīhau saṃkhyeye ḍajabahugaṇāt
- 5.4.74
ऋक्पूरब्धूःपथामानक्षे ॥
ṛkpūrabdhūḥpathāmānakṣe
- 5.4.75
अच् प्रत्यन्ववपूर्वात् सामलोम्नः ॥
ac pratyanvavapūrvāt sāmalomnaḥ
- 5.4.76
अक्ष्णोऽदर्शनात् ॥
akṣṇo'darśanāt
- 5.4.77
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ॥
acaturavicaturasucaturastrīpuṃsadhenvanaḍuharksāmavāṅmanasākṣibhruvadāragavorvaṣṭhīvapadaṣṭhīvanaktaṃdivarātriṃdivāhardivasarajasaniḥśreyasapuruṣāyuṣadvyāyuṣatryāyuṣargyajuṣajātokṣamahokṣavṛddhokṣopaśunagoṣṭhaśvāḥ
- 5.4.78
ब्रह्महस्तिभ्याम् वर्च्चसः ॥
brahmahastibhyām varccasaḥ
- 5.4.79
अवसमन्धेभ्यस्तमसः ॥
avasamandhebhyastamasaḥ
- 5.4.80
श्वसो वसीयःश्रेयसः ॥
śvaso vasīyaḥśreyasaḥ
- 5.4.81
अन्ववतप्ताद्रहसः ॥
anvavataptādrahasaḥ
- 5.4.82
प्रतेरुरसः सप्तमीस्थात् ॥
praterurasaḥ saptamīsthāt
- 5.4.83
अनुगवमायामे ॥
anugavamāyāme
- 5.4.84
द्विस्तावा त्रिस्तावा वेदिः ॥
dvistāvā tristāvā vediḥ
- 5.4.85
उपसर्गादध्वनः ॥
upasargādadhvanaḥ
- 5.4.86
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ॥
tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ
- 5.4.87
अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ॥
ahassarvaikadeśasaṃkhyātapuṇyācca rātreḥ
- 5.4.88
अह्नोऽह्न एतेभ्यः ॥
ahno'hna etebhyaḥ
- 5.4.89
न संख्यादेः समाहारे ॥
na saṃkhyādeḥ samāhāre
- 5.4.90
उत्तमैकाभ्यां च ॥
uttamaikābhyāṃ ca
- 5.4.91
राजाहस्सखिभ्यष्टच् ॥
rājāhassakhibhyaṣṭac
- 5.4.92
गोरतद्धितलुकि ॥
gorataddhitaluki
- 5.4.93
अग्राख्यायामुरसः ॥
agrākhyāyāmurasaḥ
- 5.4.94
अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ॥
ano'śmāyassarasām jātisaṃjñayoḥ
- 5.4.95
ग्रामकौटाभ्यां च तक्ष्णः ॥
grāmakauṭābhyāṃ ca takṣṇaḥ
- 5.4.96
अतेः शुनः ॥
ateḥ śunaḥ
- 5.4.97
उपमानादप्राणिषु ॥
upamānādaprāṇiṣu
- 5.4.98
उत्तरमृगपूर्वाच्च सक्थ्नः ॥
uttaramṛgapūrvācca sakthnaḥ
- 5.4.99
नावो द्विगोः ॥
nāvo dvigoḥ
- 5.4.100
अर्धाच्च ॥
ardhācca
- 5.4.101
खार्याः प्राचाम् ॥
khāryāḥ prācām
- 5.4.102
द्वित्रिभ्यामञ्जलेः ॥
dvitribhyāmañjaleḥ
- 5.4.103
अनसन्तान्नपुंसकाच्छन्दसि ॥
anasantānnapuṃsakācchandasi
- 5.4.104
ब्रह्मणो जानपदाख्यायाम् ॥
brahmaṇo jānapadākhyāyām
- 5.4.105
कुमहद्भ्यामन्यतरस्याम् ॥
kumahadbhyāmanyatarasyām
- 5.4.106
द्वन्द्वाच्चुदषहान्तात् समाहारे ॥
dvandvāccudaṣahāntāt samāhāre
- 5.4.107
अव्ययीभावे शरत्प्रभृतिभ्यः ॥
avyayībhāve śaratprabhṛtibhyaḥ
- 5.4.108
अनश्च ॥
anaśca
- 5.4.109
नपुंसकादन्यतरस्याम् ॥
napuṃsakādanyatarasyām
- 5.4.110
नदीपौर्णमास्याग्रहायणीभ्यः ॥
nadīpaurṇamāsyāgrahāyaṇībhyaḥ
- 5.4.111
झयः ॥
jhayaḥ
- 5.4.112
गिरेश्च सेनकस्य ॥
gireśca senakasya
- 5.4.113
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ॥
bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac
- 5.4.114
अङ्गुलेर्दारुणि ॥
aṅgulerdāruṇi
- 5.4.115
द्वित्रिभ्यां ष मूर्ध्नः ॥
dvitribhyāṃ ṣa mūrdhnaḥ
- 5.4.116
अप् पूरणीप्रमाण्योः ॥
ap pūraṇīpramāṇyoḥ
- 5.4.117
अन्तर्बहिर्भ्यां च लोम्नः ॥
antarbahirbhyāṃ ca lomnaḥ
- 5.4.118
अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ॥
añnāsikāyāḥ saṃjñāyāṃ nasaṃ cāsthūlāt
- 5.4.119
उपसर्गाच्च ॥
upasargācca
- 5.4.120
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ॥
suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ
- 5.4.121
नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥
nañduḥsubhyo halisakthyoranyatarasyām
- 5.4.122
नित्यमसिच् प्रजामेधयोः ॥
nityamasic prajāmedhayoḥ
- 5.4.123
बहुप्रजाश्छन्दसि ॥
bahuprajāśchandasi
- 5.4.124
धर्मादनिच् केवलात् ॥
dharmādanic kevalāt
- 5.4.125
जम्भा सुहरिततृणसोमेभ्यः ॥
jambhā suharitatṛṇasomebhyaḥ
- 5.4.126
दक्षिणेर्मा लुब्धयोगे ॥
dakṣiṇermā lubdhayoge
- 5.4.127
इच् कर्मव्यतिहारे ॥
ic karmavyatihāre
- 5.4.128
द्विदण्ड्यादिभ्यश्च ॥
dvidaṇḍyādibhyaśca
- 5.4.129
प्रसम्भ्यां जानुनोर्ज्ञुः ॥
prasambhyāṃ jānunorjñuḥ
- 5.4.130
ऊर्ध्वाद्विभाषा ॥
ūrdhvādvibhāṣā
- 5.4.131
ऊधसोऽनङ् ॥
ūdhaso'naṅ
- 5.4.132
धनुषश्च ॥
dhanuṣaśca
- 5.4.133
वा संज्ञायाम् ॥
vā saṃjñāyām
- 5.4.134
जायाया निङ् ॥
jāyāyā niṅ
- 5.4.135
गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥
gandhasyedutpūtisusurabhibhyaḥ
- 5.4.136
अल्पाख्यायाम् ॥
alpākhyāyām
- 5.4.137
उपमानाच्च ॥
upamānācca
- 5.4.138
पादस्य लोपोऽहस्त्यादिभ्यः ॥
pādasya lopo'hastyādibhyaḥ
- 5.4.139
कुम्भपदीषु च ॥
kumbhapadīṣu ca
- 5.4.140
संख्यासुपूर्वस्य ॥
saṃkhyāsupūrvasya
- 5.4.141
वयसि दन्तस्य दतृ ॥
vayasi dantasya datṛ
- 5.4.142
छन्दसि च ॥
chandasi ca
- 5.4.143
स्त्रियां संज्ञायाम् ॥
striyāṃ saṃjñāyām
- 5.4.144
विभाषा श्यावारोकाभ्याम् ॥
vibhāṣā śyāvārokābhyām
- 5.4.145
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥
agrāntaśuddhaśubhravṛṣavarāhebhyaśca
- 5.4.146
ककुदस्यावस्थायां लोपः ॥
kakudasyāvasthāyāṃ lopaḥ
- 5.4.147
त्रिककुत् पर्वते ॥
trikakut parvate
- 5.4.148
उद्विभ्यां काकुदस्य ॥
udvibhyāṃ kākudasya
- 5.4.149
पूर्णाद्विभाषा ॥
pūrṇādvibhāṣā
- 5.4.150
सुहृद्दुर्हृदौ मित्रामित्रयोः ॥
suhṛddurhṛdau mitrāmitrayoḥ
- 5.4.151
उरःप्रभृतिभ्यः कप् ॥
uraḥprabhṛtibhyaḥ kap
- 5.4.152
इनः स्त्रियाम् ॥
inaḥ striyām
- 5.4.153
नद्यृतश्च ॥
nadyṛtaśca
- 5.4.154
शेषाद्विभाषा ॥
śeṣādvibhāṣā
- 5.4.155
न संज्ञायाम् ॥
na saṃjñāyām
- 5.4.156
ईयसश्च ॥
īyasaśca
- 5.4.157
वन्दिते भ्रातुः ॥
vandite bhrātuḥ
- 5.4.158
ऋतश्छन्दसि ॥
ṛtaśchandasi
- 5.4.159
नाडीतन्त्र्योः स्वाङ्गे ॥
nāḍītantryoḥ svāṅge
- 5.4.160
निष्प्रवाणिश्च ॥
niṣpravāṇiśca