चतुर्थोऽध्यायः Adhyāya 4
Under each sūtra: Words, its words with sandhi undone. Carried, words it takes over from earlier rules, with the rule each comes from. Under, the headings whose area it falls in. A tag marks a rule that is not an ordinary operation. How to read an entry.
प्रथमः पादः Pāda prathamaḥ
- 4.1.1
ङ्याप्प्रातिपदिकात् ॥
ṅyāpprātipadikāt
- 4.1.2
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाङ्ङ्योस्सुप् ॥
svaujasamauṭchaṣṭābhyāmbhisṅebhyāmbhyasṅasibhyāmbhyasṅasosāṅṅyossup
- 4.1.3
स्त्रियाम् ॥
striyām
- 4.1.4
अजाद्यतष्टाप् ॥
ajādyataṣṭāp
- 4.1.5
ऋन्नेभ्यो ङीप् ॥
ṛnnebhyo ṅīp
- 4.1.6
उगितश्च ॥
ugitaśca
- 4.1.7
वनो र च ॥
vano ra ca
- 4.1.8
पादोऽन्यतरस्याम् ॥
pādo'nyatarasyām
- 4.1.9
टाबृचि ॥
ṭābṛci
- 4.1.10
न षट्स्वस्रादिभ्यः ॥
na ṣaṭsvasrādibhyaḥ
- 4.1.11
मनः ॥
manaḥ
- 4.1.12
अनो बहुव्रीहेः ॥
ano bahuvrīheḥ
- 4.1.13
डाबुभाभ्यामन्यतरस्याम् ॥
ḍābubhābhyāmanyatarasyām
- 4.1.14
अनुपसर्जनात् ॥
anupasarjanāt
- 4.1.15
टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ॥
ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhakṭhañkañkvarapaḥ
- 4.1.16
यञश्च ॥
yañaśca
- 4.1.17
प्राचां ष्फ तद्धितः ॥
prācāṃ ṣpha taddhitaḥ
- 4.1.18
सर्वत्र लोहितादिकतन्तेभ्यः ॥
sarvatra lohitādikatantebhyaḥ
- 4.1.19
कौरव्यमाण्डूकाभ्यां च ॥
kauravyamāṇḍūkābhyāṃ ca
- 4.1.20
वयसि प्रथमे ॥
vayasi prathame
- 4.1.21
द्विगोः ॥
dvigoḥ
- 4.1.22
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥
aparimāṇabistācitakambalyebhyo na taddhitaluki
- 4.1.23
काण्डान्तात् क्षेत्रे ॥
kāṇḍāntāt kṣetre
- 4.1.24
पुरुषात् प्रमाणेऽन्यतरस्याम् ॥
puruṣāt pramāṇe'nyatarasyām
- 4.1.25
बहुव्रीहेरूधसो ङीष् ॥
bahuvrīherūdhaso ṅīṣ
- 4.1.26
संख्याव्ययादेर्ङीप् ॥
saṃkhyāvyayāderṅīp
- 4.1.27
दामहायनान्ताच्च ॥
dāmahāyanāntācca
- 4.1.28
अन उपधालोपिनोन्यतरस्याम् ॥
ana upadhālopinonyatarasyām
- 4.1.29
नित्यं संज्ञाछन्दसोः ॥
nityaṃ saṃjñāchandasoḥ
- 4.1.30
केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च ॥
kevalamāmakabhāgadheyapāpāparasamānāryakṛta-sumaṅgalabheṣajācca
- 4.1.31
रात्रेश्चाजसौ ॥
rātreścājasau
- 4.1.32
अन्तर्वत्पतिवतोर्नुक् ॥
antarvatpativatornuk
- 4.1.33
पत्युर्नो यज्ञसंयोगे ॥
patyurno yajñasaṃyoge
- 4.1.34
विभाषा सपूर्वस्य ॥
vibhāṣā sapūrvasya
- 4.1.35
नित्यं सपत्न्यादिषु ॥
nityaṃ sapatnyādiṣu
- 4.1.36
पूतक्रतोरै च ॥
pūtakratorai ca
- 4.1.37
वृषाकप्यग्निकुसितकुसिदानामुदात्तः ॥
vṛṣākapyagnikusitakusidānāmudāttaḥ
- 4.1.38
मनोरौ वा ॥
manorau vā
- 4.1.39
वर्णादनुदात्तात्तोपधात्तो नः ॥
varṇādanudāttāttopadhātto naḥ
- 4.1.40
अन्यतो ङीष् ॥
anyato ṅīṣ
- 4.1.41
षिद्गौरादिभ्यश्च ॥
ṣidgaurādibhyaśca
- 4.1.42
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥
jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarādvṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu
- 4.1.43
शोणात् प्राचाम् ॥
śoṇāt prācām
- 4.1.44
वोतो गुणवचनात् ॥
voto guṇavacanāt
- 4.1.45
बह्वादिभ्यश्च ॥
bahvādibhyaśca
- 4.1.46
नित्यं छन्दसि ॥
nityaṃ chandasi
- 4.1.47
भुवश्च ॥
bhuvaśca
- 4.1.48
पुंयोगादाख्यायाम् ॥
puṃyogādākhyāyām
- 4.1.49
इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥
indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇāmānuk
- 4.1.50
क्रीतात् करणपूर्वात् ॥
krītāt karaṇapūrvāt
- 4.1.51
क्तादल्पाख्यायाम् ॥
ktādalpākhyāyām
- 4.1.52
बहुव्रीहेश्चान्तोदात्तात् ॥
bahuvrīheścāntodāttāt
- 4.1.53
अस्वाङ्गपूर्वपदाद्वा ॥
asvāṅgapūrvapadādvā
- 4.1.54
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ॥
svāṅgāccopasarjanādasaṃyogopadhāt
- 4.1.55
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ॥
nāsikodarauṣṭhajaṅghādantakarṇaśṛṅgācca
- 4.1.56
न क्रोडादिबह्वचः ॥
na kroḍādibahvacaḥ
- 4.1.57
सहनञ्विद्यमानपूर्वाच्च ॥
sahanañvidyamānapūrvācca
- 4.1.58
नखमुखात् संज्ञायाम् ॥
nakhamukhāt saṃjñāyām
- 4.1.59
दीर्घजिह्वी च च्छन्दसि ॥
dīrghajihvī ca cchandasi
- 4.1.60
दिक्पूर्वपदान्ङीप् ॥
dikpūrvapadānṅīp
- 4.1.61
वाहः ॥
vāhaḥ
- 4.1.62
सख्यशिश्वीति भाषायाम् ॥
sakhyaśiśvīti bhāṣāyām
- 4.1.63
जातेरस्त्रीविषयादयोपधात् ॥
jāterastrīviṣayādayopadhāt
- 4.1.64
पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥
pākakarṇaparṇapuṣpaphalamūlavālottarapadācca
- 4.1.65
इतो मनुष्यजातेः ॥
ito manuṣyajāteḥ
- 4.1.66
ऊङुतः ॥
ūṅutaḥ
- 4.1.67
बाह्वन्तात् संज्ञायाम् ॥
bāhvantāt saṃjñāyām
- 4.1.68
पङ्गोश्च ॥
paṅgośca
- 4.1.69
ऊरूत्तरपदादौपम्ये ॥
ūrūttarapadādaupamye
- 4.1.70
संहितशफलक्षणवामादेश्च ॥
saṃhitaśaphalakṣaṇavāmādeśca
- 4.1.71
कद्रुकमण्डल्वोश्छन्दसि ॥
kadrukamaṇḍalvośchandasi
- 4.1.72
संज्ञायाम् ॥
saṃjñāyām
- 4.1.73
शार्ङ्गरवाद्यञो ङीन् ॥
śārṅgaravādyaño ṅīn
- 4.1.74
यङश्चाप् ॥
yaṅaścāp
- 4.1.75
आवट्याच्च ॥
āvaṭyācca
- 4.1.76
तद्धिताः ॥
taddhitāḥ
- 4.1.77
यूनस्तिः ॥
yūnastiḥ
- 4.1.78
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे ॥
aṇiñoranārṣayorgurūpottamayoḥ ṣyaṅ gotre
- 4.1.79
गोत्रावयवात् ॥
gotrāvayavāt
- 4.1.80
क्रौड्यादिभ्यश्च ॥
krauḍyādibhyaśca
- 4.1.81
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥
daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo'nyatarasyām
- 4.1.82
समर्थानां प्रथमाद्वा ॥
samarthānāṃ prathamādvā
- 4.1.83
प्राग्दीव्यतोऽण् ॥
prāgdīvyato'ṇ
- 4.1.84
अश्वपत्यादिभ्यश्च ॥
aśvapatyādibhyaśca
- 4.1.85
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥
dityadityādityapatyuttarapadāṇṇyaḥ
- 4.1.86
उत्सादिभ्योऽञ् ॥
utsādibhyo'ñ
- 4.1.87
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥
strīpuṃsābhyāṃ nañsnañau bhavanāt
- 4.1.88
द्विगोर्लुगनपत्ये ॥
dvigorluganapatye
- 4.1.89
गोत्रेऽलुगचि ॥
gotre'lugaci
- 4.1.90
यूनि लुक् ॥
yūni luk
- 4.1.91
फक्फिञोरन्यतरस्याम् ॥
phakphiñoranyatarasyām
- 4.1.92
तस्यापत्यम् ॥
tasyāpatyam
- 4.1.93
एको गोत्रे ॥
eko gotre
- 4.1.94
गोत्राद्यून्यस्त्रियाम् ॥
gotrādyūnyastriyām
- 4.1.95
अत इञ् ॥
ata iñ
- 4.1.96
बाह्वादिभ्यश्च ॥
bāhvādibhyaśca
- 4.1.97
सुधातुरकङ् च ॥
sudhāturakaṅ ca
- 4.1.98
गोत्रे कुञ्जादिभ्यश्च्फञ् ॥
gotre kuñjādibhyaścphañ
- 4.1.99
नडादिभ्यः फक् ॥
naḍādibhyaḥ phak
- 4.1.100
हरितादिभ्योऽञः ॥
haritādibhyo'ñaḥ
- 4.1.101
यञिञोश्च ॥
yañiñośca
- 4.1.102
शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ॥
śaradvacchunakadarbhādbhṛguvatsāgrāyaṇeṣu
- 4.1.103
द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥
droṇaparvatajīvantādanyatarasyām
- 4.1.104
अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥
anṛṣyānantarye bidādibhyo'ñ
- 4.1.105
गर्गादिभ्यो यञ् ॥
gargādibhyo yañ
- 4.1.106
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ॥
madhubabhrvorbrāhmaṇakauśikayoḥ
- 4.1.107
कपिबोधादाङ्गिरसे ॥
kapibodhādāṅgirase
- 4.1.108
वतण्डाच्च ॥
vataṇḍācca
- 4.1.109
लुक् स्त्रियाम् ॥
luk striyām
- 4.1.110
अश्वादिभ्यः फञ् ॥
aśvādibhyaḥ phañ
- 4.1.111
भर्गात् त्रैगर्ते ॥
bhargāt traigarte
- 4.1.112
शिवादिभ्योऽण् ॥
śivādibhyo'ṇ
- 4.1.113
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥
avṛddhābhyo nadīmānuṣībhyastannāmikābhyaḥ
- 4.1.114
ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥
ṛṣyandhakavṛṣṇikurubhyaśca
- 4.1.115
मातुरुत् संख्यासम्भद्रपूर्वायाः ॥
māturut saṃkhyāsambhadrapūrvāyāḥ
- 4.1.116
कन्यायाः कनीन च ॥
kanyāyāḥ kanīna ca
- 4.1.117
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥
vikarṇaśuṅgacchagalādvatsabharadvājātriṣu
- 4.1.118
पीलाया वा ॥
pīlāyā vā
- 4.1.119
ढक् च मण्डूकात् ॥
ḍhak ca maṇḍūkāt
- 4.1.120
स्त्रीभ्यो ढक् ॥
strībhyo ḍhak
- 4.1.121
द्व्यचः ॥
dvyacaḥ
- 4.1.122
इतश्चानिञः ॥
itaścāniñaḥ
- 4.1.123
शुभ्रादिभ्यश्च ॥
śubhrādibhyaśca
- 4.1.124
विकर्णकुषीतकात् काश्यपे ॥
vikarṇakuṣītakāt kāśyape
- 4.1.125
भ्रुवो वुक् च ॥
bhruvo vuk ca
- 4.1.126
कल्याण्यादीनामिनङ् ॥
kalyāṇyādīnāminaṅ
- 4.1.127
कुलटाया वा ॥
kulaṭāyā vā
- 4.1.128
चटकाया ऐरक् ॥
caṭakāyā airak
- 4.1.129
गोधाया ढ्रक् ॥
godhāyā ḍhrak
- 4.1.130
आरगुदीचाम् ॥
āragudīcām
- 4.1.131
क्षुद्राभ्यो वा ॥
kṣudrābhyo vā
- 4.1.132
पितृष्वसुश्छण् ॥
pitṛṣvasuśchaṇ
- 4.1.133
ढकि लोपः ॥
ḍhaki lopaḥ
- 4.1.134
मातृष्वसुश्च ॥
mātṛṣvasuśca
- 4.1.135
चतुष्पाद्भ्यो ढञ् ॥
catuṣpādbhyo ḍhañ
- 4.1.136
गृष्ट्यादिभ्यश्च ॥
gṛṣṭyādibhyaśca
- 4.1.137
राजश्वशुराद्यत् ॥
rājaśvaśurādyat
- 4.1.138
क्षत्राद्घः ॥
kṣatrādghaḥ
- 4.1.139
कुलात् खः ॥
kulāt khaḥ
- 4.1.140
अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥
apūrvapadādanyatarasyāṃ yaḍḍhakañau
- 4.1.141
महाकुलादञ्खञौ ॥
mahākulādañkhañau
- 4.1.142
दुष्कुलाड्ढक् ॥
duṣkulāḍḍhak
- 4.1.143
स्वसुश्छः ॥
svasuśchaḥ
- 4.1.144
भ्रातुर्व्यच्च ॥
bhrāturvyacca
- 4.1.145
व्यन् सपत्ने ॥
vyan sapatne
- 4.1.146
रेवत्यादिभ्यष्ठक् ॥
revatyādibhyaṣṭhak
- 4.1.147
गोत्रस्त्रियाः कुत्सने ण च ॥
gotrastriyāḥ kutsane ṇa ca
- 4.1.148
वृद्धाट्ठक् सौवीरेषु बहुलम् ॥
vṛddhāṭṭhak sauvīreṣu bahulam
- 4.1.149
फेश्छ च ॥
pheścha ca
- 4.1.150
फाण्टाहृतिमिमताभ्यां णफिञौ ॥
phāṇṭāhṛtimimatābhyāṃ ṇaphiñau
- 4.1.151
कुर्वादिभ्यो ण्यः ॥
kurvādibhyo ṇyaḥ
- 4.1.152
सेनान्तलक्षणकारिभ्यश्च ॥
senāntalakṣaṇakāribhyaśca
- 4.1.153
उदीचामिञ् ॥
udīcāmiñ
- 4.1.154
तिकादिभ्यः फिञ् ॥
tikādibhyaḥ phiñ
- 4.1.155
कौसल्यकार्मार्याभ्यां च ॥
kausalyakārmāryābhyāṃ ca
- 4.1.156
अणो द्व्यचः ॥
aṇo dvyacaḥ
- 4.1.157
उदीचां वृद्धादगोत्रात् ॥
udīcāṃ vṛddhādagotrāt
- 4.1.158
वाकिनादीनां कुक् च ॥
vākinādīnāṃ kuk ca
- 4.1.159
पुत्रान्तादन्यतरस्याम् ॥
putrāntādanyatarasyām
- 4.1.160
प्राचामवृद्धात् फिन् बहुलम् ॥
prācāmavṛddhāt phin bahulam
- 4.1.161
मनोर्जातावञ्यतौ षुक् च ॥
manorjātāvañyatau ṣuk ca
- 4.1.162
अपत्यं पौत्रप्रभृति गोत्रम् ॥
apatyaṃ pautraprabhṛti gotram
- 4.1.163
जीवति तु वंश्ये युवा ॥
jīvati tu vaṃśye yuvā
- 4.1.164
भ्रातरि च ज्यायसि ॥
bhrātari ca jyāyasi
- 4.1.165
वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥
vānyasmin sapiṇḍe sthaviratare jīvati
- 4.1.166
वृद्धस्य च पूजायाम् ॥
vṛddhasya ca pūjāyām
- 4.1.167
यूनश्च कुत्सायाम् ॥
yūnaśca kutsāyām
- 4.1.168
जनपदशब्दात् क्षत्रियादञ् ॥
janapadaśabdāt kṣatriyādañ
- 4.1.169
साल्वेयगान्धारिभ्यां च ॥
sālveyagāndhāribhyāṃ ca
- 4.1.170
द्व्यञ्मगधकलिङ्गसूरमसादण् ॥
dvyañmagadhakaliṅgasūramasādaṇ
- 4.1.171
वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥
vṛddhetkosalājādāññyaṅ
- 4.1.172
कुरुनादिभ्यो ण्यः ॥
kurunādibhyo ṇyaḥ
- 4.1.173
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥
sālvāvayavapratyagrathakalakūṭāśmakādiñ
- 4.1.174
ते तद्राजाः ॥
te tadrājāḥ
- 4.1.175
कम्बोजाल्लुक् ॥
kambojālluk
- 4.1.176
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥
striyāmavantikuntikurubhyaśca
- 4.1.177
अतश्च ॥
ataśca
- 4.1.178
न प्राच्यभर्गादियौधेयादिभ्यः ॥
na prācyabhargādiyaudheyādibhyaḥ
द्वितीयः पादः Pāda dvitīyaḥ
- 4.2.1
तेन रक्तं रागात् ॥
tena raktaṃ rāgāt
- 4.2.2
लाक्षारोचनाशकलकर्दमाट्ठक् ॥
lākṣārocanāśakalakardamāṭṭhak
- 4.2.3
नक्षत्रेण युक्तः कालः ॥
nakṣatreṇa yuktaḥ kālaḥ
- 4.2.4
लुबविशेषे ॥
lubaviśeṣe
- 4.2.5
संज्ञायां श्रवणाश्वत्थाभ्याम् ॥
saṃjñāyāṃ śravaṇāśvatthābhyām
- 4.2.6
द्वन्द्वाच्छः ॥
dvandvācchaḥ
- 4.2.7
दृष्टं साम ॥
dṛṣṭaṃ sāma
- 4.2.8
कलेर्ढक् ॥
kalerḍhak
- 4.2.9
वामदेवाड्ड्यड्ड्यौ ॥
vāmadevāḍḍyaḍḍyau
- 4.2.10
परिवृतो रथः ॥
parivṛto rathaḥ
- 4.2.11
पाण्डुकम्बलादिनिः ॥
pāṇḍukambalādiniḥ
- 4.2.12
द्वैपवैयाघ्रादञ् ॥
dvaipavaiyāghrādañ
- 4.2.13
कौमारापूर्ववचने ॥
kaumārāpūrvavacane
- 4.2.14
तत्रोद्धृतममत्रेभ्यः ॥
tatroddhṛtamamatrebhyaḥ
- 4.2.15
स्थण्डिलाच्छयितरि व्रते ॥
sthaṇḍilācchayitari vrate
- 4.2.16
संस्कृतं भक्षाः ॥
saṃskṛtaṃ bhakṣāḥ
- 4.2.17
शूलोखाद्यत् ॥
śūlokhādyat
- 4.2.18
दध्नष्ठक् ॥
dadhnaṣṭhak
- 4.2.19
उदश्वितोऽन्यतरस्याम् ॥
udaśvito'nyatarasyām
- 4.2.20
क्षीराड्ढञ् ॥
kṣīrāḍḍhañ
- 4.2.21
सास्मिन् पौर्णमासीति संज्ञायाम् ॥
sāsmin paurṇamāsīti saṃjñāyām
- 4.2.22
आग्रहायण्यश्वत्थाट्ठक् ॥
āgrahāyaṇyaśvatthāṭṭhak
- 4.2.23
विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ॥
vibhāṣā phālgunīśravaṇākārttikīcaitrībhyaḥ
- 4.2.24
सास्य देवता ॥
sāsya devatā
- 4.2.25
कस्येत् ॥
kasyet
- 4.2.26
शुक्राद्घन् ॥
śukrādghan
- 4.2.27
अपोनप्त्रपान्नप्तृभ्यां घः ॥
aponaptrapānnaptṛbhyāṃ ghaḥ
- 4.2.28
छ च ॥
cha ca
- 4.2.29
महेन्द्राद्घाणौ च ॥
mahendrādghāṇau ca
- 4.2.30
सोमाट्ट्यण् ॥
somāṭṭyaṇ
- 4.2.31
वाय्वृतुपित्रुषसो यत् ॥
vāyvṛtupitruṣaso yat
- 4.2.32
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥
dyāvāpṛthivīśunāsīramarutvadagnīṣomavāstoṣpatigṛhamedhāccha ca
- 4.2.33
अग्नेर्ढक् ॥
agnerḍhak
- 4.2.34
कालेभ्यो भववत् ॥
kālebhyo bhavavat
- 4.2.35
महाराजप्रोष्ठपदाट्ठञ् ॥
mahārājaproṣṭhapadāṭṭhañ
- 4.2.36
पितृव्यमातुलमातामहपितामहाः ॥
pitṛvyamātulamātāmahapitāmahāḥ
- 4.2.37
तस्य समूहः ॥
tasya samūhaḥ
- 4.2.38
भिक्षादिभ्योऽण् ॥
bhikṣādibhyo'ṇ
- 4.2.39
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ॥
gotrokṣoṣṭrorabhrarājarājanyarājaputravatsamanuṣyājādvuñ
- 4.2.40
केदाराद्यञ् च ॥
kedārādyañ ca
- 4.2.41
ठञ् कवचिनश्च ॥
ṭhañ kavacinaśca
- 4.2.42
ब्राह्मणमाणववाडवाद्यन् ॥
brāhmaṇamāṇavavāḍavādyan
- 4.2.43
ग्रामजनबन्धुसहायेभ्यः तल् ॥
grāmajanabandhusahāyebhyaḥ tal
- 4.2.44
अनुदात्तादेरञ् ॥
anudāttāderañ
- 4.2.45
खण्डिकादिभ्यश्च ॥
khaṇḍikādibhyaśca
- 4.2.46
चरणेभ्यो धर्मवत् ॥
caraṇebhyo dharmavat
- 4.2.47
अचित्तहस्तिधेनोष्ठक् ॥
acittahastidhenoṣṭhak
- 4.2.48
केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥
keśāśvābhyāṃ yañchāvanyatarasyām
- 4.2.49
पाशादिभ्यो यः ॥
pāśādibhyo yaḥ
- 4.2.50
खलगोरथात् ॥
khalagorathāt
- 4.2.51
इनित्रकट्यचश्च ॥
initrakaṭyacaśca
- 4.2.52
विषयो देशे ॥
viṣayo deśe
- 4.2.53
राजन्यादिभ्यो वुञ् ॥
rājanyādibhyo vuñ
- 4.2.54
भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥
bhaurikyādyaiṣukāryādibhyo vidhalbhaktalau
- 4.2.55
सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ॥
so'syādiriti cchandasaḥ pragātheṣu
- 4.2.56
संग्रामे प्रयोजनयोद्धृभ्यः ॥
saṃgrāme prayojanayoddhṛbhyaḥ
- 4.2.57
तदस्यां प्रहरणमिति क्रीडायाम् णः ॥
tadasyāṃ praharaṇamiti krīḍāyām ṇaḥ
- 4.2.58
घञः साऽस्यां क्रियेति ञः ॥
ghañaḥ sā'syāṃ kriyeti ñaḥ
- 4.2.59
तदधीते तद्वेद ॥
tadadhīte tadveda
- 4.2.60
क्रतूक्थादिसूत्रान्ताट्ठक् ॥
kratūkthādisūtrāntāṭṭhak
- 4.2.61
क्रमादिभ्यो वुन् ॥
kramādibhyo vun
- 4.2.62
अनुब्राह्मणादिनिः ॥
anubrāhmaṇādiniḥ
- 4.2.63
वसन्तादिभ्यष्ठक् ॥
vasantādibhyaṣṭhak
- 4.2.64
प्रोक्ताल्लुक् ॥
proktālluk
- 4.2.65
सूत्राच्च कोपधात् ॥
sūtrācca kopadhāt
- 4.2.66
छन्दोब्राह्मणानि च तद्विषयाणि ॥
chandobrāhmaṇāni ca tadviṣayāṇi
- 4.2.67
तदस्मिन्नस्तीति देशे तन्नाम्नि ॥
tadasminnastīti deśe tannāmni
- 4.2.68
तेन निर्वृत्तम् ॥
tena nirvṛttam
- 4.2.69
तस्य निवासः ॥
tasya nivāsaḥ
- 4.2.70
अदूरभवश्च ॥
adūrabhavaśca
- 4.2.71
ओरञ् ॥
orañ
- 4.2.72
मतोश्च बह्वजङ्गात् ॥
matośca bahvajaṅgāt
- 4.2.73
बह्वचः कूपेषु ॥
bahvacaḥ kūpeṣu
- 4.2.74
उदक् च विपाशः ॥
udak ca vipāśaḥ
- 4.2.75
संकलादिभ्यश्च ॥
saṃkalādibhyaśca
- 4.2.76
स्त्रीषु सौवीरसाल्वप्राक्षु ॥
strīṣu sauvīrasālvaprākṣu
- 4.2.77
सुवास्त्वादिभ्योऽण् ॥
suvāstvādibhyo'ṇ
- 4.2.78
रोणी ॥
roṇī
- 4.2.79
कोपधाच्च ॥
kopadhācca
- 4.2.80
वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः ॥
vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣā'śmasakhisaṃkāśabalapakṣakarṇasutaṃgamapragadinvarāhakumudādibhyaḥ
- 4.2.81
जनपदे लुप् ॥
janapade lup
- 4.2.82
वरणादिभ्यश्च ॥
varaṇādibhyaśca
- 4.2.83
शर्कराया वा ॥
śarkarāyā vā
- 4.2.84
ठक्छौ च ॥
ṭhakchau ca
- 4.2.85
नद्यां मतुप् ॥
nadyāṃ matup
- 4.2.86
मध्वादिभ्यश्च ॥
madhvādibhyaśca
- 4.2.87
कुमुदनडवेतसेभ्यो ड्मतुप् ॥
kumudanaḍavetasebhyo ḍmatup
- 4.2.88
नडशादाड्ड्वलच् ॥
naḍaśādāḍḍvalac
- 4.2.89
शिखाया वलच् ॥
śikhāyā valac
- 4.2.90
उत्करादिभ्यश्छः ॥
utkarādibhyaśchaḥ
- 4.2.91
नडादीनां कुक् च ॥
naḍādīnāṃ kuk ca
- 4.2.92
शेषे ॥
śeṣe
- 4.2.93
राष्ट्रावारपाराद्घखौ ॥
rāṣṭrāvārapārādghakhau
- 4.2.94
ग्रामाद्यखञौ ॥
grāmādyakhañau
- 4.2.95
कत्र्यादिभ्यो ढकञ् ॥
katryādibhyo ḍhakañ
- 4.2.96
कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु ॥
kulakukṣigrīvābhyaḥ śvāsyalaṃkāreṣu
- 4.2.97
नद्यादिभ्यो ढक् ॥
nadyādibhyo ḍhak
- 4.2.98
दक्षिणापश्चात्पुरसस्त्यक् ॥
dakṣiṇāpaścātpurasastyak
- 4.2.99
कापिश्याः ष्फक् ॥
kāpiśyāḥ ṣphak
- 4.2.100
रंकोरमनुष्येऽण् च ॥
raṃkoramanuṣye'ṇ ca
- 4.2.101
द्युप्रागपागुदक्प्रतीचो यत् ॥
dyuprāgapāgudakpratīco yat
- 4.2.102
कन्थायाष्ठक् ॥
kanthāyāṣṭhak
- 4.2.103
वर्णौ वुक् ॥
varṇau vuk
- 4.2.104
अव्ययात्त्यप् ॥
avyayāttyap
- 4.2.105
ऐषमोह्यःश्वसोऽन्यतरस्याम् ॥
aiṣamohyaḥśvaso'nyatarasyām
- 4.2.106
तीररूप्योत्तरपदादञ्ञौ ॥
tīrarūpyottarapadādaññau
- 4.2.107
दिक्पूर्वपदादसंज्ञायां ञः ॥
dikpūrvapadādasaṃjñāyāṃ ñaḥ
- 4.2.108
मद्रेभ्योऽञ् ॥
madrebhyo'ñ
- 4.2.109
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥
udīcyagrāmācca bahvaco'ntodāttāt
- 4.2.110
प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥
prasthottarapadapaladyādikopadhādaṇ
- 4.2.111
कण्वादिभ्यो गोत्रे ॥
kaṇvādibhyo gotre
- 4.2.112
इञश्च ॥
iñaśca
- 4.2.113
न द्व्यचः प्राच्यभरतेषु ॥
na dvyacaḥ prācyabharateṣu
- 4.2.114
वृद्धाच्छः ॥
vṛddhācchaḥ
- 4.2.115
भवतष्ठक्छसौ ॥
bhavataṣṭhakchasau
- 4.2.116
काश्यादिभ्यष्ठञ्ञिठौ ॥
kāśyādibhyaṣṭhaññiṭhau
- 4.2.117
वाहीकग्रामेभ्यश्च ॥
vāhīkagrāmebhyaśca
- 4.2.118
विभाषोशीनरेषु ॥
vibhāṣośīnareṣu
- 4.2.119
ओर्देशे ठञ् ॥
ordeśe ṭhañ
- 4.2.120
वृद्धात् प्राचाम् ॥
vṛddhāt prācām
- 4.2.121
धन्वयोपधाद्वुञ् ॥
dhanvayopadhādvuñ
- 4.2.122
प्रस्थपुरवहान्ताच्च ॥
prasthapuravahāntācca
- 4.2.123
रोपधेतोः प्राचाम् ॥
ropadhetoḥ prācām
- 4.2.124
जनपदतदवध्योश्च ॥
janapadatadavadhyośca
- 4.2.125
अवृद्धादपि बहुवचनविषयात् ॥
avṛddhādapi bahuvacanaviṣayāt
- 4.2.126
कच्छाग्निवक्त्रवर्त्तोत्तरपदात् ॥
kacchāgnivaktravarttottarapadāt
- 4.2.127
धूमादिभ्यश्च ॥
dhūmādibhyaśca
- 4.2.128
नगरात् कुत्सनप्रावीण्ययोः ॥
nagarāt kutsanaprāvīṇyayoḥ
- 4.2.129
अरण्यान्मनुष्ये ॥
araṇyānmanuṣye
- 4.2.130
विभाषा कुरुयुगन्धराभ्याम् ॥
vibhāṣā kuruyugandharābhyām
- 4.2.131
मद्रवृज्योः कन् ॥
madravṛjyoḥ kan
- 4.2.132
कोपधादण् ॥
kopadhādaṇ
- 4.2.133
कच्छादिभ्यश्च ॥
kacchādibhyaśca
- 4.2.134
मनुष्यतत्स्थयोर्वुञ् ॥
manuṣyatatsthayorvuñ
- 4.2.135
अपदातौ साल्वात् ॥
apadātau sālvāt
- 4.2.136
गोयवाग्वोश्च ॥
goyavāgvośca
- 4.2.137
गर्तोत्तरपदाच्छः ॥
gartottarapadācchaḥ
- 4.2.138
गहादिभ्यश्च ॥
gahādibhyaśca
- 4.2.139
प्राचां कटादेः ॥
prācāṃ kaṭādeḥ
- 4.2.140
राज्ञः क च ॥
rājñaḥ ka ca
- 4.2.141
वृद्धादकेकान्तखोपधात् ॥
vṛddhādakekāntakhopadhāt
- 4.2.142
कन्थापलदनगरग्रामहृदोत्तरपदात् ॥
kanthāpaladanagaragrāmahṛdottarapadāt
- 4.2.143
पर्वताच्च ॥
parvatācca
- 4.2.144
विभाषाऽमनुष्ये ॥
vibhāṣā'manuṣye
- 4.2.145
कृकणपर्णाद्भारद्वाजे ॥
kṛkaṇaparṇādbhāradvāje
तृतीयः पादः Pāda tṛtīyaḥ
- 4.3.1
युष्मदस्मदोरन्यतरस्यां खञ् च ॥
yuṣmadasmadoranyatarasyāṃ khañ ca
- 4.3.2
तस्मिन्नणि च युष्माकास्माकौ ॥
tasminnaṇi ca yuṣmākāsmākau
- 4.3.3
तवकममकावेकवचने ॥
tavakamamakāvekavacane
- 4.3.4
अर्धाद्यत् ॥
ardhādyat
- 4.3.5
परावराधमोत्तमपूर्वाच्च ॥
parāvarādhamottamapūrvācca
- 4.3.6
दिक्पूर्वपदाट्ठञ् च ॥
dikpūrvapadāṭṭhañ ca
- 4.3.7
ग्रामजनपदैकदेशादञ्ठञौ ॥
grāmajanapadaikadeśādañṭhañau
- 4.3.8
मध्यान्मः ॥
madhyānmaḥ
- 4.3.9
अ साम्प्रतिके ॥
a sāmpratike
- 4.3.10
द्वीपादनुसमुद्रं यञ् ॥
dvīpādanusamudraṃ yañ
- 4.3.11
कालाट्ठञ् ॥
kālāṭṭhañ
- 4.3.12
श्राद्धे शरदः ॥
śrāddhe śaradaḥ
- 4.3.13
विभाषा रोगातपयोः ॥
vibhāṣā rogātapayoḥ
- 4.3.14
निशाप्रदोषाभ्यां च ॥
niśāpradoṣābhyāṃ ca
- 4.3.15
श्वसस्तुट् च ॥
śvasastuṭ ca
- 4.3.16
संधिवेलाद्यृतुनक्षत्रेभ्योऽण् ॥
saṃdhivelādyṛtunakṣatrebhyo'ṇ
- 4.3.17
प्रावृष एण्यः ॥
prāvṛṣa eṇyaḥ
- 4.3.18
वर्षाभ्यष्ठक् ॥
varṣābhyaṣṭhak
- 4.3.19
छन्दसि ठञ् ॥
chandasi ṭhañ
- 4.3.20
वसन्ताच्च ॥
vasantācca
- 4.3.21
हेमन्ताच्च ॥
hemantācca
- 4.3.22
सर्वत्राण् च तलोपश्च ॥
sarvatrāṇ ca talopaśca
- 4.3.23
सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ॥
sāyaṃciramprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca
- 4.3.24
विभाषा पूर्वाह्णापराह्णाभ्याम् ॥
vibhāṣā pūrvāhṇāparāhṇābhyām
- 4.3.25
तत्र जातः ॥
tatra jātaḥ
- 4.3.26
प्रावृषष्ठप् ॥
prāvṛṣaṣṭhap
- 4.3.27
संज्ञायां शरदो वुञ् ॥
saṃjñāyāṃ śarado vuñ
- 4.3.28
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् ॥
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarādvun
- 4.3.29
पथः पन्थ च ॥
pathaḥ pantha ca
- 4.3.30
अमावास्याया वा ॥
amāvāsyāyā vā
- 4.3.31
अ च ॥
a ca
- 4.3.32
सिन्ध्वपकराभ्यां कन् ॥
sindhvapakarābhyāṃ kan
- 4.3.33
अणञौ च ॥
aṇañau ca
- 4.3.34
श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ॥
śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhāṣāḍhābahulālluk
- 4.3.35
स्थानान्तगोशालखरशालाच्च ॥
sthānāntagośālakharaśālācca
- 4.3.36
वत्सशालाभिजिदश्वयुक्छतभिषजो वा ॥
vatsaśālābhijidaśvayukchatabhiṣajo vā
- 4.3.37
नक्षत्रेभ्यो बहुलम् ॥
nakṣatrebhyo bahulam
- 4.3.38
कृतलब्धक्रीतकुशलाः ॥
kṛtalabdhakrītakuśalāḥ
- 4.3.39
प्रायभवः ॥
prāyabhavaḥ
- 4.3.40
उपजानूपकर्णोपनीवेष्ठक् ॥
upajānūpakarṇopanīveṣṭhak
- 4.3.41
संभूते ॥
saṃbhūte
- 4.3.42
कोशाड्ढञ् ॥
kośāḍḍhañ
- 4.3.43
कालात् साधुपुष्प्यत्पच्यमानेषु ॥
kālāt sādhupuṣpyatpacyamāneṣu
- 4.3.44
उप्ते च ॥
upte ca
- 4.3.45
आश्वयुज्या वुञ् ॥
āśvayujyā vuñ
- 4.3.46
ग्रीष्मवसन्तादन्यतरस्याम् ॥
grīṣmavasantādanyatarasyām
- 4.3.47
देयमृणे ॥
deyamṛṇe
- 4.3.48
कलाप्यश्वत्थयवबुसाद्वुन् ॥
kalāpyaśvatthayavabusādvun
- 4.3.49
ग्रीष्मावरसमाद्वुञ् ॥
grīṣmāvarasamādvuñ
- 4.3.50
संवत्सराग्रहायणीभ्यां ठञ् च ॥
saṃvatsarāgrahāyaṇībhyāṃ ṭhañ ca
- 4.3.51
व्याहरति मृगः ॥
vyāharati mṛgaḥ
- 4.3.52
तदस्य सोढम् ॥
tadasya soḍham
- 4.3.53
तत्र भवः ॥
tatra bhavaḥ
- 4.3.54
दिगादिभ्यो यत् ॥
digādibhyo yat
- 4.3.55
शरीरावयवाच्च ॥
śarīrāvayavācca
- 4.3.56
दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ॥
dṛtikukṣikalaśivastyastyaherḍhañ
- 4.3.57
ग्रीवाभ्योऽण् च ॥
grīvābhyo'ṇ ca
- 4.3.58
गम्भीराञ्ञ्यः ॥
gambhīrāññyaḥ
- 4.3.59
अव्ययीभावाच्च ॥
avyayībhāvācca
- 4.3.60
अन्तःपूर्वपदाट्ठञ् ॥
antaḥpūrvapadāṭṭhañ
- 4.3.61
ग्रामात् पर्यनुपूर्वात् ॥
grāmāt paryanupūrvāt
- 4.3.62
जिह्वामूलाङ्गुलेश्छः ॥
jihvāmūlāṅguleśchaḥ
- 4.3.63
वर्गान्ताच्च ॥
vargāntācca
- 4.3.64
अशब्दे यत्खावन्यतरस्याम् ॥
aśabde yatkhāvanyatarasyām
- 4.3.65
कर्णललाटात् कनलंकारे ॥
karṇalalāṭāt kanalaṃkāre
- 4.3.66
तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥
tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ
- 4.3.67
बह्वचोऽन्तोदात्ताट्ठञ् ॥
bahvaco'ntodāttāṭṭhañ
- 4.3.68
क्रतुयज्ञेभ्यश्च ॥
kratuyajñebhyaśca
- 4.3.69
अध्यायेष्वेवर्षेः ॥
adhyāyeṣvevarṣeḥ
- 4.3.70
पौरोडाशपुरोडाशात् ष्ठन् ॥
pauroḍāśapuroḍāśāt ṣṭhan
- 4.3.71
छन्दसो यदणौ ॥
chandaso yadaṇau
- 4.3.72
द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् ॥
dvyajṛdbrāhmaṇarkprathamādhvarapuraścaraṇanāmākhyātāṭṭhak
- 4.3.73
अणृगयनादिभ्यः ॥
aṇṛgayanādibhyaḥ
- 4.3.74
तत आगतः ॥
tata āgataḥ
- 4.3.75
ठगायस्थानेभ्यः ॥
ṭhagāyasthānebhyaḥ
- 4.3.76
शुण्डिकादिभ्योऽण् ॥
śuṇḍikādibhyo'ṇ
- 4.3.77
विद्यायोनिसंबन्धेभ्यो वुञ् ॥
vidyāyonisaṃbandhebhyo vuñ
- 4.3.78
ऋतष्ठञ् ॥
ṛtaṣṭhañ
- 4.3.79
पितुर्यच्च ॥
pituryacca
- 4.3.80
गोत्रादङ्कवत् ॥
gotrādaṅkavat
- 4.3.81
हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥
hetumanuṣyebhyo'nyatarasyāṃ rūpyaḥ
- 4.3.82
मयट् च ॥
mayaṭ ca
- 4.3.83
प्रभवति ॥
prabhavati
- 4.3.84
विदूराञ्ञ्यः ॥
vidūrāññyaḥ
- 4.3.85
तद्गच्छति पथिदूतयोः ॥
tadgacchati pathidūtayoḥ
- 4.3.86
अभिनिष्क्रामति द्वारम् ॥
abhiniṣkrāmati dvāram
- 4.3.87
अधिकृत्य कृते ग्रन्थे ॥
adhikṛtya kṛte granthe
- 4.3.88
शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ॥
śiśukrandayamasabhadvandvendrajananādibhyaśchaḥ
- 4.3.89
सोऽस्य निवासः ॥
so'sya nivāsaḥ
- 4.3.90
अभिजनश्च ॥
abhijanaśca
- 4.3.91
आयुधजीविभ्यश्छः पर्वते ॥
āyudhajīvibhyaśchaḥ parvate
- 4.3.92
शण्डिकादिभ्यो ञ्यः ॥
śaṇḍikādibhyo ñyaḥ
- 4.3.93
सिन्धुतक्षशिलादिभ्योऽणञौ ॥
sindhutakṣaśilādibhyo'ṇañau
- 4.3.94
तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः ॥
tūdīśalāturavarmatīkūcavārāḍḍhakchaṇḍhañyakaḥ
- 4.3.95
भक्तिः ॥
bhaktiḥ
- 4.3.96
अचित्ताददेशकालाट्ठक् ॥
acittādadeśakālāṭṭhak
- 4.3.97
महाराजाट्ठञ् ॥
mahārājāṭṭhañ
- 4.3.98
वासुदेवार्जुनाभ्यां वुन् ॥
vāsudevārjunābhyāṃ vun
- 4.3.99
गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥
gotrakṣatriyākhyebhyo bahulaṃ vuñ
- 4.3.100
जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ॥
janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane
- 4.3.101
तेन प्रोक्तम् ॥
tena proktam
- 4.3.102
तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥
tittirivaratantukhaṇḍikokhācchaṇ
- 4.3.103
काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥
kāśyapakauśikābhyāmṛṣibhyāṃ ṇiniḥ
- 4.3.104
कलापिवैशम्पायनान्तेवासिभ्यश्च ॥
kalāpivaiśampāyanāntevāsibhyaśca
- 4.3.105
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥
purāṇaprokteṣu brāhmaṇakalpeṣu
- 4.3.106
शौनकादिभ्यश्छन्दसि ॥
śaunakādibhyaśchandasi
- 4.3.107
कठचरकाल्लुक् ॥
kaṭhacarakālluk
- 4.3.108
कलापिनोऽण् ॥
kalāpino'ṇ
- 4.3.109
छगलिनो ढिनुक् ॥
chagalino ḍhinuk
- 4.3.110
पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥
pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ
- 4.3.111
कर्मन्दकृशाश्वादिनिः ॥
karmandakṛśāśvādiniḥ
- 4.3.112
तेनैकदिक् ॥
tenaikadik
- 4.3.113
तसिश्च ॥
tasiśca
- 4.3.114
उरसो यच्च ॥
uraso yacca
- 4.3.115
उपज्ञाते ॥
upajñāte
- 4.3.116
कृते ग्रन्थे ॥
kṛte granthe
- 4.3.117
संज्ञायाम् ॥
saṃjñāyām
- 4.3.118
कुलालादिभ्यो वुञ् ॥
kulālādibhyo vuñ
- 4.3.119
क्षुद्राभ्रमरवटरपादपादञ् ॥
kṣudrābhramaravaṭarapādapādañ
- 4.3.120
तस्येदम् ॥
tasyedam
- 4.3.121
रथाद्यत् ॥
rathādyat
- 4.3.122
पत्रपूर्वादञ् ॥
patrapūrvādañ
- 4.3.123
पत्राध्वर्युपरिषदश्च ॥
patrādhvaryupariṣadaśca
- 4.3.124
हलसीराट्ठक् ॥
halasīrāṭṭhak
- 4.3.125
द्वन्द्वाद्वुन् वैरमैथुनिकयोः ॥
dvandvādvun vairamaithunikayoḥ
- 4.3.126
गोत्रचरणाद्वुञ् ॥
gotracaraṇādvuñ
- 4.3.127
संघाङ्कलक्षणेष्वञ्यञिञामण् ॥
saṃghāṅkalakṣaṇeṣvañyañiñāmaṇ
- 4.3.128
शाकलाद्वा ॥
śākalādvā
- 4.3.129
छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ॥
chandogaukthikayājñikabahvṛcanaṭāññyaḥ
- 4.3.130
न दण्डमाणवान्तेवासिषु ॥
na daṇḍamāṇavāntevāsiṣu
- 4.3.131
रैवतिकादिभ्यश्छः ॥
raivatikādibhyaśchaḥ
- 4.3.132
कौपिञ्जलहास्तिपदादण् ॥
kaupiñjalahāstipadādaṇ
- 4.3.133
आथर्वणिकस्येकलोपश्च ॥
ātharvaṇikasyekalopaśca
- 4.3.134
तस्य विकारः ॥
tasya vikāraḥ
- 4.3.135
अवयवे च प्राण्योषधिवृक्षेभ्यः ॥
avayave ca prāṇyoṣadhivṛkṣebhyaḥ
- 4.3.136
बिल्वादिभ्योऽण् ॥
bilvādibhyo'ṇ
- 4.3.137
कोपधाच्च ॥
kopadhācca
- 4.3.138
त्रपुजतुनोः षुक् ॥
trapujatunoḥ ṣuk
- 4.3.139
ओरञ् ॥
orañ
- 4.3.140
अनुदात्तादेश्च ॥
anudāttādeśca
- 4.3.141
पलाशादिभ्यो वा ॥
palāśādibhyo vā
- 4.3.142
शम्याष्ट्लञ् ॥
śamyāṣṭlañ
- 4.3.143
मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ॥
mayaḍvaitayorbhāṣāyāmabhakṣyācchādanayoḥ
- 4.3.144
नित्यं वृद्धशरादिभ्यः ॥
nityaṃ vṛddhaśarādibhyaḥ
- 4.3.145
गोश्च पुरीषे ॥
gośca purīṣe
- 4.3.146
पिष्टाच्च ॥
piṣṭācca
- 4.3.147
संज्ञायां कन् ॥
saṃjñāyāṃ kan
- 4.3.148
व्रीहेः पुरोडाशे ॥
vrīheḥ puroḍāśe
- 4.3.149
असंज्ञायां तिलयवाभ्याम् ॥
asaṃjñāyāṃ tilayavābhyām
- 4.3.150
द्व्यचश्छन्दसि ॥
dvyacaśchandasi
- 4.3.151
नोत्वद्वर्ध्रबिल्वात् ॥
notvadvardhrabilvāt
- 4.3.152
तालादिभ्योऽण् ॥
tālādibhyo'ṇ
- 4.3.153
जातरूपेभ्यः परिमाणे ॥
jātarūpebhyaḥ parimāṇe
- 4.3.154
प्राणिरजतादिभ्योऽञ् ॥
prāṇirajatādibhyo'ñ
- 4.3.155
ञितश्च तत्प्रत्ययात् ॥
ñitaśca tatpratyayāt
- 4.3.156
क्रीतवत् परिमाणात् ॥
krītavat parimāṇāt
- 4.3.157
उष्ट्राद्वुञ् ॥
uṣṭrādvuñ
- 4.3.158
उमोर्णयोर्वा ॥
umorṇayorvā
- 4.3.159
एण्या ढञ् ॥
eṇyā ḍhañ
- 4.3.160
गोपयसोर्यत् ॥
gopayasoryat
- 4.3.161
द्रोश्च ॥
drośca
- 4.3.162
माने वयः ॥
māne vayaḥ
- 4.3.163
फले लुक् ॥
phale luk
- 4.3.164
प्लक्षादिभ्योऽण् ॥
plakṣādibhyo'ṇ
- 4.3.165
जम्ब्वा वा ॥
jambvā vā
- 4.3.166
लुप् च ॥
lup ca
- 4.3.167
हरीतक्यादिभ्यश्च ॥
harītakyādibhyaśca
- 4.3.168
कंसीयपरशव्ययोर्यञञौ लुक् च ॥
kaṃsīyaparaśavyayoryañañau luk ca
चतुर्थः पादः Pāda caturthaḥ
- 4.4.1
प्राग्वहतेष्ठक् ॥
prāgvahateṣṭhak
- 4.4.2
तेन दीव्यति खनति जयति जितम् ॥
tena dīvyati khanati jayati jitam
- 4.4.3
संस्कृतम् ॥
saṃskṛtam
- 4.4.4
कुलत्थकोपधादण् ॥
kulatthakopadhādaṇ
- 4.4.5
तरति ॥
tarati
- 4.4.6
गोपुच्छाट्ठञ् ॥
gopucchāṭṭhañ
- 4.4.7
नौद्व्यचष्ठन् ॥
naudvyacaṣṭhan
- 4.4.8
चरति ॥
carati
- 4.4.9
आकर्षात् ष्ठल् ॥
ākarṣāt ṣṭhal
- 4.4.10
पर्पादिभ्यः ष्ठन् ॥
parpādibhyaḥ ṣṭhan
- 4.4.11
श्वगणाट्ठञ्च ॥
śvagaṇāṭṭhañca
- 4.4.12
वेतनादिभ्यो जीवति ॥
vetanādibhyo jīvati
- 4.4.13
वस्नक्रयविक्रयाट्ठन् ॥
vasnakrayavikrayāṭṭhan
- 4.4.14
आयुधाच्छ च ॥
āyudhāccha ca
- 4.4.15
हरत्युत्सङ्गादिभ्यः ॥
haratyutsaṅgādibhyaḥ
- 4.4.16
भस्त्रादिभ्यः ष्ठन् ॥
bhastrādibhyaḥ ṣṭhan
- 4.4.17
विभाषा विवधवीवधात् ॥
vibhāṣā vivadhavīvadhāt
- 4.4.18
अण् कुटिलिकायाः ॥
aṇ kuṭilikāyāḥ
- 4.4.19
निर्वृत्तेऽक्षद्यूतादिभ्यः ॥
nirvṛtte'kṣadyūtādibhyaḥ
- 4.4.20
क्त्रेर्मम् नित्यम् ॥
ktrermam nityam
- 4.4.21
अपमित्ययाचिताभ्यां कक्कनौ ॥
apamityayācitābhyāṃ kakkanau
- 4.4.22
संसृष्टे ॥
saṃsṛṣṭe
- 4.4.23
चूर्णादिनिः ॥
cūrṇādiniḥ
- 4.4.24
लवणाल्लुक् ॥
lavaṇālluk
- 4.4.25
मुद्गादण् ॥
mudgādaṇ
- 4.4.26
व्यञ्जनैरुपसिक्ते ॥
vyañjanairupasikte
- 4.4.27
ओजस्सहोऽम्भसा वर्तते ॥
ojassaho'mbhasā vartate
- 4.4.28
तत् प्रत्यनुपूर्वमीपलोमकूलम् ॥
tat pratyanupūrvamīpalomakūlam
- 4.4.29
परिमुखं च ॥
parimukhaṃ ca
- 4.4.30
प्रयच्छति गर्ह्यम् ॥
prayacchati garhyam
- 4.4.31
कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥
kusīdadaśaikādaśāt ṣṭhanṣṭhacau
- 4.4.32
उञ्छति ॥
uñchati
- 4.4.33
रक्षति ॥
rakṣati
- 4.4.34
शब्ददर्दुरं करोति ॥
śabdadarduraṃ karoti
- 4.4.35
पक्षिमत्स्यमृगान् हन्ति ॥
pakṣimatsyamṛgān hanti
- 4.4.36
परिपन्थं च तिष्ठति ॥
paripanthaṃ ca tiṣṭhati
- 4.4.37
माथोत्तरपदपदव्यनुपदं धावति ॥
māthottarapadapadavyanupadaṃ dhāvati
- 4.4.38
आक्रन्दाट्ठञ्च ॥
ākrandāṭṭhañca
- 4.4.39
पदोत्तरपदं गृह्णाति ॥
padottarapadaṃ gṛhṇāti
- 4.4.40
प्रतिकण्ठार्थललामं च ॥
pratikaṇṭhārthalalāmaṃ ca
- 4.4.41
धर्मं चरति ॥
dharmaṃ carati
- 4.4.42
प्रतिपथमेति ठंश्च ॥
pratipathameti ṭhaṃśca
- 4.4.43
समवायान् समवैति ॥
samavāyān samavaiti
- 4.4.44
परिषदो ण्यः ॥
pariṣado ṇyaḥ
- 4.4.45
सेनाया वा ॥
senāyā vā
- 4.4.46
संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥
saṃjñāyāṃ lalāṭakukkuṭyau paśyati
- 4.4.47
तस्य धर्म्यम् ॥
tasya dharmyam
- 4.4.48
अण् महिष्यादिभ्यः ॥
aṇ mahiṣyādibhyaḥ
- 4.4.49
ऋतोऽञ् ॥
ṛto'ñ
- 4.4.50
अवक्रयः ॥
avakrayaḥ
- 4.4.51
तदस्य पण्यम् ॥
tadasya paṇyam
- 4.4.52
लवणाट्ठञ् ॥
lavaṇāṭṭhañ
- 4.4.53
किशरादिभ्यः ष्ठन् ॥
kiśarādibhyaḥ ṣṭhan
- 4.4.54
शलालुनोऽन्यतरस्याम् ॥
śalāluno'nyatarasyām
- 4.4.55
शिल्पम् ॥
śilpam
- 4.4.56
मड्डुकझर्झरादणन्यतरस्याम् ॥
maḍḍukajharjharādaṇanyatarasyām
- 4.4.57
प्रहरणम् ॥
praharaṇam
- 4.4.58
परश्वधाट्ठञ्च ॥
paraśvadhāṭṭhañca
- 4.4.59
शक्तियष्ट्योरीकक् ॥
śaktiyaṣṭyorīkak
- 4.4.60
अस्तिनास्तिदिष्टं मतिः ॥
astināstidiṣṭaṃ matiḥ
- 4.4.61
शीलम् ॥
śīlam
- 4.4.62
छत्रादिभ्यो णः ॥
chatrādibhyo ṇaḥ
- 4.4.63
कर्माध्ययने वृत्तम् ॥
karmādhyayane vṛttam
- 4.4.64
बह्वच्पूर्वपदाट्ठच् ॥
bahvacpūrvapadāṭṭhac
- 4.4.65
हितं भक्षाः ॥
hitaṃ bhakṣāḥ
- 4.4.66
तदस्मै दीयते नियुक्तम् ॥
tadasmai dīyate niyuktam
- 4.4.67
श्राणामांसौदनाट्टिठन् ॥
śrāṇāmāṃsaudanāṭṭiṭhan
- 4.4.68
भक्तादणन्यतरस्याम् ॥
bhaktādaṇanyatarasyām
- 4.4.69
तत्र नियुक्तः ॥
tatra niyuktaḥ
- 4.4.70
अगारान्ताट्ठन् ॥
agārāntāṭṭhan
- 4.4.71
अध्यायिन्यदेशकालात् ॥
adhyāyinyadeśakālāt
- 4.4.72
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥
kaṭhināntaprastārasaṃsthāneṣu vyavaharati
- 4.4.73
निकटे वसति ॥
nikaṭe vasati
- 4.4.74
आवसथात् ष्ठल् ॥
āvasathāt ṣṭhal
- 4.4.75
प्राग्घिताद्यत् ॥
prāgghitādyat
- 4.4.76
तद्वहति रथयुगप्रासङ्गम् ॥
tadvahati rathayugaprāsaṅgam
- 4.4.77
धुरो यड्ढकौ ॥
dhuro yaḍḍhakau
- 4.4.78
खः सर्वधुरात् ॥
khaḥ sarvadhurāt
- 4.4.79
एकधुराल्लुक् च ॥
ekadhurālluk ca
- 4.4.80
शकटादण् ॥
śakaṭādaṇ
- 4.4.81
हलसीराट्ठक् ॥
halasīrāṭṭhak
- 4.4.82
संज्ञायां जन्याः ॥
saṃjñāyāṃ janyāḥ
- 4.4.83
विध्यत्यधनुषा ॥
vidhyatyadhanuṣā
- 4.4.84
धनगणं लब्धा ॥
dhanagaṇaṃ labdhā
- 4.4.85
अन्नाण्णः ॥
annāṇṇaḥ
- 4.4.86
वशं गतः ॥
vaśaṃ gataḥ
- 4.4.87
पदमस्मिन् दृश्यम् ॥
padamasmin dṛśyam
- 4.4.88
मूलमस्याबर्हि ॥
mūlamasyābarhi
- 4.4.89
संज्ञायां धेनुष्या ॥
saṃjñāyāṃ dhenuṣyā
- 4.4.90
गृहपतिना संयुक्ते ञ्यः ॥
gṛhapatinā saṃyukte ñyaḥ
- 4.4.91
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥
nauvayodharmaviṣamūlamūlasītātulābhyastāryatulyaprāpyavadhyānāmyasamasamitasammiteṣu
- 4.4.92
धर्मपथ्यर्थन्यायादनपेते ॥
dharmapathyarthanyāyādanapete
- 4.4.93
छन्दसो निर्मिते ॥
chandaso nirmite
- 4.4.94
उरसोऽण् च ॥
uraso'ṇ ca
- 4.4.95
हृदयस्य प्रियः ॥
hṛdayasya priyaḥ
- 4.4.96
बन्धने चर्षौ ॥
bandhane carṣau
- 4.4.97
मतजनहलात् करणजल्पकर्षेषु ॥
matajanahalāt karaṇajalpakarṣeṣu
- 4.4.98
तत्र साधुः ॥
tatra sādhuḥ
- 4.4.99
प्रतिजनादिभ्यः खञ् ॥
pratijanādibhyaḥ khañ
- 4.4.100
भक्ताण्णः ॥
bhaktāṇṇaḥ
- 4.4.101
परिषदो ण्यः ॥
pariṣado ṇyaḥ
- 4.4.102
कथादिभ्यष्ठक् ॥
kathādibhyaṣṭhak
- 4.4.103
गुडादिभ्यष्ठञ् ॥
guḍādibhyaṣṭhañ
- 4.4.104
पथ्यतिथिवसतिस्वपतेर्ढञ् ॥
pathyatithivasatisvapaterḍhañ
- 4.4.105
सभाया यः ॥
sabhāyā yaḥ
- 4.4.106
ढश्छन्दसि ॥
ḍhaśchandasi
- 4.4.107
समानतीर्थे वासी ॥
samānatīrthe vāsī
- 4.4.108
समानोदरे शयित ओ चोदात्तः ॥
samānodare śayita o codāttaḥ
- 4.4.109
सोदराद्यः ॥
sodarādyaḥ
- 4.4.110
भवे छन्दसि ॥
bhave chandasi
- 4.4.111
पाथोनदीभ्यां ड्यण् ॥
pāthonadībhyāṃ ḍyaṇ
- 4.4.112
वेशन्तहिमवद्भ्यामण् ॥
veśantahimavadbhyāmaṇ
- 4.4.113
स्रोतसो विभाषा ड्यड्ड्यौ ॥
srotaso vibhāṣā ḍyaḍḍyau
- 4.4.114
सगर्भसयूथसनुताद्यन् ॥
sagarbhasayūthasanutādyan
- 4.4.115
तुग्राद्घन् ॥
tugrādghan
- 4.4.116
अग्राद्यत् ॥
agrādyat
- 4.4.117
घच्छौ च ॥
ghacchau ca
- 4.4.118
समुद्राभ्राद्घः ॥
samudrābhrādghaḥ
- 4.4.119
बर्हिषि दत्तम् ॥
barhiṣi dattam
- 4.4.120
दूतस्य भागकर्मणी ॥
dūtasya bhāgakarmaṇī
- 4.4.121
रक्षोयातूनां हननी ॥
rakṣoyātūnāṃ hananī
- 4.4.122
रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥
revatījagatīhaviṣyābhyaḥ praśasye
- 4.4.123
असुरस्य स्वम् ॥
asurasya svam
- 4.4.124
मायायामण् ॥
māyāyāmaṇ
- 4.4.125
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥
tadvānāsāmupadhāno mantra itīṣṭakāsu luk ca matoḥ
- 4.4.126
अश्विमानण् ॥
aśvimānaṇ
- 4.4.127
वयस्यासु मूर्ध्नो मतुप् ॥
vayasyāsu mūrdhno matup
- 4.4.128
मत्वर्थे मासतन्वोः ॥
matvarthe māsatanvoḥ
- 4.4.129
मधोर्ञ च ॥
madhorña ca
- 4.4.130
ओजसोऽहनि यत्खौ ॥
ojaso'hani yatkhau
- 4.4.131
वेशोयशआदेर्भगाद्यल् ॥
veśoyaśaāderbhagādyal
- 4.4.132
ख च ॥
kha ca
- 4.4.133
पूर्वैः कृतमिनयौ च ॥
pūrvaiḥ kṛtaminayau ca
- 4.4.134
अद्भिः संस्कृतम् ॥
adbhiḥ saṃskṛtam
- 4.4.135
सहस्रेण संमितौ घः ॥
sahasreṇa saṃmitau ghaḥ
- 4.4.136
मतौ च ॥
matau ca
- 4.4.137
सोममर्हति यः ॥
somamarhati yaḥ
- 4.4.138
मये च ॥
maye ca
- 4.4.139
मधोः ॥
madhoḥ
- 4.4.140
वसोः समूहे च ॥
vasoḥ samūhe ca
- 4.4.141
नक्षत्राद्घः ॥
nakṣatrādghaḥ
- 4.4.142
सर्वदेवात् तातिल् ॥
sarvadevāt tātil
- 4.4.143
शिवशमरिष्टस्य करे ॥
śivaśamariṣṭasya kare
- 4.4.144
भावे च ॥
bhāve ca