तृतीयोऽध्यायः Adhyāya 3
Under each sūtra: Words, its words with sandhi undone. Carried, words it takes over from earlier rules, with the rule each comes from. Under, the headings whose area it falls in. A tag marks a rule that is not an ordinary operation. How to read an entry.
प्रथमः पादः Pāda prathamaḥ
- 3.1.1
प्रत्ययः ॥
pratyayaḥ
- 3.1.2
परश्च ॥
paraśca
- 3.1.3
आद्युदात्तश्च ॥
ādyudāttaśca
- 3.1.4
अनुदात्तौ सुप्पितौ ॥
anudāttau suppitau
- 3.1.5
गुप्तिज्किद्भ्यः सन् ॥
guptijkidbhyaḥ san
- 3.1.6
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥
mānbadhadānśānbhyo dīrghaścābhyāsasya
- 3.1.7
धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥
dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā
- 3.1.8
सुप आत्मनः क्यच् ॥
supa ātmanaḥ kyac
- 3.1.9
काम्यच्च ॥
kāmyacca
- 3.1.10
उपमानादाचारे ॥
upamānādācāre
- 3.1.11
कर्तुः क्यङ् सलोपश्च ॥
kartuḥ kyaṅ salopaśca
- 3.1.12
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥
bhṛśādibhyo bhuvyacverlopaśca halaḥ
- 3.1.13
लोहितादिडाज्भ्यः क्यष् ॥
lohitādiḍājbhyaḥ kyaṣ
- 3.1.14
कष्टाय क्रमणे ॥
kaṣṭāya kramaṇe
- 3.1.15
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥
karmaṇo romanthatapobhyāṃ varticaroḥ
- 3.1.16
बाष्पोष्मभ्यामुद्वमने ॥
bāṣpoṣmabhyāmudvamane
- 3.1.17
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥
śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe
- 3.1.18
सुखादिभ्यः कर्तृवेदनायाम् ॥
sukhādibhyaḥ kartṛvedanāyām
- 3.1.19
नमोवरिवश्चित्रङः क्यच् ॥
namovarivaścitraṅaḥ kyac
- 3.1.20
पुच्छभाण्डचीवराण्णिङ् ॥
pucchabhāṇḍacīvarāṇṇiṅ
- 3.1.21
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥
muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo ṇic
- 3.1.22
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥
dhātorekāco halādeḥ kriyāsamabhihāre yaṅ
- 3.1.23
नित्यं कौटिल्ये गतौ ॥
nityaṃ kauṭilye gatau
- 3.1.24
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ॥
lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām
- 3.1.25
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic
- 3.1.26
हेतुमति च ॥
hetumati ca
- 3.1.27
कण्ड्वादिभ्यो यक् ॥
kaṇḍvādibhyo yak
- 3.1.28
गुपूधूपविच्छिपणिपनिभ्य आयः ॥
gupūdhūpavicchipaṇipanibhya āyaḥ
- 3.1.29
ऋतेरीयङ् ॥
ṛterīyaṅ
- 3.1.30
कमेर्णिङ् ॥
kamerṇiṅ
- 3.1.31
आयादय आर्धधातुके वा ॥
āyādaya ārdhadhātuke vā
- 3.1.32
सनाद्यन्ता धातवः ॥
sanādyantā dhātavaḥ
- 3.1.33
स्यतासी लृलुटोः ॥
syatāsī lṛluṭoḥ
- 3.1.34
सिब्बहुलं लेटि ॥
sibbahulaṃ leṭi
- 3.1.35
कास्प्रत्ययादाममन्त्रे लिटि ॥
kāspratyayādāmamantre liṭi
- 3.1.36
इजादेश्च गुरुमतोऽनृच्छः ॥
ijādeśca gurumato'nṛcchaḥ
- 3.1.37
दयायासश्च ॥
dayāyāsaśca
- 3.1.38
उषविदजागृभ्योऽन्यतरस्याम् ॥
uṣavidajāgṛbhyo'nyatarasyām
- 3.1.39
भीह्रीभृहुवां श्लुवच्च ॥
bhīhrībhṛhuvāṃ śluvacca
- 3.1.40
कृञ् चानुप्रयुज्यते लिटि ॥
kṛñ cānuprayujyate liṭi
- 3.1.41
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥
vidāṅkurvantvityanyatarasyām
- 3.1.42
अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि ॥
abhyutsādayāṃprajanayāṃcikayāṃramayāmakaḥ pāvayāṃkriyādvidāmakranniti cchandasi
- 3.1.43
च्लि लुङि ॥
cli luṅi
- 3.1.44
च्लेः सिच् ॥
cleḥ sic
- 3.1.45
शल इगुपधादनिटः क्सः ॥
śala igupadhādaniṭaḥ ksaḥ
- 3.1.46
श्लिष आलिङ्गने ॥
śliṣa āliṅgane
- 3.1.47
न दृशः ॥
na dṛśaḥ
- 3.1.48
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥
ṇiśridrusrubhyaḥ kartari caṅ
- 3.1.49
विभाषा धेट्श्व्योः ॥
vibhāṣā dheṭśvyoḥ
- 3.1.50
गुपेश्छन्दसि ॥
gupeśchandasi
- 3.1.51
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥
nonayatidhvanayatyelayatyardayatibhyaḥ
- 3.1.52
अस्यतिवक्तिख्यातिभ्योऽङ् ॥
asyativaktikhyātibhyo'ṅ
- 3.1.53
लिपिसिचिह्वश्च ॥
lipisicihvaśca
- 3.1.54
आत्मनेपदेष्वन्यतरस्याम् ॥
ātmanepadeṣvanyatarasyām
- 3.1.55
पुषादिद्युताद्यॢदितः परस्मैपदेषु ॥
puṣādidyutādyḷditaḥ parasmaipadeṣu
- 3.1.56
सर्त्तिशास्त्यर्तिभ्यश्च ॥
sarttiśāstyartibhyaśca
- 3.1.57
इरितो वा ॥
irito vā
- 3.1.58
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ॥
jṝstambhumrucumlucugrucuglucugluñcuśvibhyaśca
- 3.1.59
कृमृदृरुहिभ्यश्छन्दसि ॥
kṛmṛdṛruhibhyaśchandasi
- 3.1.60
चिण् ते पदः ॥
ciṇ te padaḥ
- 3.1.61
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥
dīpajanabudhapūritāyipyāyibhyo'nyatarasyām
- 3.1.62
अचः कर्मकर्तरि ॥
acaḥ karmakartari
- 3.1.63
दुहश्च ॥
duhaśca
- 3.1.64
न रुधः ॥
na rudhaḥ
- 3.1.65
तपोऽनुतापे च ॥
tapo'nutāpe ca
- 3.1.66
चिण् भावकर्मणोः ॥
ciṇ bhāvakarmaṇoḥ
- 3.1.67
सार्वधातुके यक् ॥
sārvadhātuke yak
- 3.1.68
कर्तरि शप् ॥
kartari śap
- 3.1.69
दिवादिभ्यः श्यन् ॥
divādibhyaḥ śyan
- 3.1.70
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ॥
vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ
- 3.1.71
यसोऽनुपसर्गात् ॥
yaso'nupasargāt
- 3.1.72
संयसश्च ॥
saṃyasaśca
- 3.1.73
स्वादिभ्यः श्नुः ॥
svādibhyaḥ śnuḥ
- 3.1.74
श्रुवः शृ च ॥
śruvaḥ śṛ ca
- 3.1.75
अक्षोऽन्यतरस्याम् ॥
akṣo'nyatarasyām
- 3.1.76
तनूकरणे तक्षः ॥
tanūkaraṇe takṣaḥ
- 3.1.77
तुदादिभ्यः शः ॥
tudādibhyaḥ śaḥ
- 3.1.78
रुधादिभ्यः श्नम् ॥
rudhādibhyaḥ śnam
- 3.1.79
तनादिकृञ्भ्य उः ॥
tanādikṛñbhya uḥ
- 3.1.80
धिन्विकृण्व्योर च ॥
dhinvikṛṇvyora ca
- 3.1.81
क्र्यादिभ्यः श्ना ॥
kryādibhyaḥ śnā
- 3.1.82
स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ॥
stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca
- 3.1.83
हलः श्नः शानज्झौ ॥
halaḥ śnaḥ śānajjhau
- 3.1.84
छन्दसि शायजपि ॥
chandasi śāyajapi
- 3.1.85
व्यत्ययो बहुलम् ॥
vyatyayo bahulam
- 3.1.86
लिङ्याशिष्यङ् ॥
liṅyāśiṣyaṅ
- 3.1.87
कर्मवत् कर्मणा तुल्यक्रियः ॥
karmavat karmaṇā tulyakriyaḥ
- 3.1.88
तपस्तपःकर्मकस्यैव ॥
tapastapaḥkarmakasyaiva
- 3.1.89
न दुहस्नुनमां यक्चिणौ ॥
na duhasnunamāṃ yakciṇau
- 3.1.90
कुषिरजोः प्राचां श्यन् परस्मैपदं च ॥
kuṣirajoḥ prācāṃ śyan parasmaipadaṃ ca
- 3.1.91
धातोः ॥
dhātoḥ
- 3.1.92
तत्रोपपदं सप्तमीस्थम् ॥
tatropapadaṃ saptamīstham
- 3.1.93
कृदतिङ् ॥
kṛdatiṅ
- 3.1.94
वाऽसरूपोऽस्त्रियाम् ॥
vā'sarūpo'striyām
- 3.1.95
कृत्याः ॥
kṛtyāḥ
- 3.1.96
तव्यत्तव्यानीयरः ॥
tavyattavyānīyaraḥ
- 3.1.97
अचो यत् ॥
aco yat
- 3.1.98
पोरदुपधात् ॥
poradupadhāt
- 3.1.99
शकिसहोश्च ॥
śakisahośca
- 3.1.100
गदमदचरयमश्चानुपसर्गे ॥
gadamadacarayamaścānupasarge
- 3.1.101
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ॥
avadyapaṇyavaryā garhyapaṇitavyānirodheṣu
- 3.1.102
वह्यं करणम् ॥
vahyaṃ karaṇam
- 3.1.103
अर्यः स्वामिवैश्ययोः ॥
aryaḥ svāmivaiśyayoḥ
- 3.1.104
उपसर्या काल्या प्रजने ॥
upasaryā kālyā prajane
- 3.1.105
अजर्यं संगतम् ॥
ajaryaṃ saṃgatam
- 3.1.106
वदः सुपि क्यप् च ॥
vadaḥ supi kyap ca
- 3.1.107
भुवो भावे ॥
bhuvo bhāve
- 3.1.108
हनस्त च ॥
hanasta ca
- 3.1.109
एतिस्तुशास्वृदृजुषः क्यप् ॥
etistuśāsvṛdṛjuṣaḥ kyap
- 3.1.110
ऋदुपधाच्चाकॢपिचृतेः ॥
ṛdupadhāccākḷpicṛteḥ
- 3.1.111
ई च खनः ॥
ī ca khanaḥ
- 3.1.112
भृञोऽसंज्ञायाम् ॥
bhṛño'saṃjñāyām
- 3.1.113
मृजेर्विभाषा ॥
mṛjervibhāṣā
- 3.1.114
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥
rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ
- 3.1.115
भिद्योद्ध्यौ नदे ॥
bhidyoddhyau nade
- 3.1.116
पुष्यसिद्ध्यौ नक्षत्रे ॥
puṣyasiddhyau nakṣatre
- 3.1.117
विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥
vipūyavinīyajityā muñjakalkahaliṣu
- 3.1.118
प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥
pratyapibhyāṃ graheśchandasi
- 3.1.119
पदास्वैरिबाह्यापक्ष्येषु च ॥
padāsvairibāhyāpakṣyeṣu ca
- 3.1.120
विभाषा कृवृषोः ॥
vibhāṣā kṛvṛṣoḥ
- 3.1.121
युग्यं च पत्रे ॥
yugyaṃ ca patre
- 3.1.122
अमावस्यदन्यतरस्याम् ॥
amāvasyadanyatarasyām
- 3.1.123
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥
chandasi niṣṭarkyadevahūyapraṇīyonnīyocchiṣyamaryastaryādhvaryakhanyakhānyadevayajyāpṛcchyapratiṣīvyabrahmavādyabhāvyastāvyopacāyyapṛḍāni
- 3.1.124
ऋहलोर्ण्यत् ॥
ṛhalorṇyat
- 3.1.125
ओरावश्यके ॥
orāvaśyake
- 3.1.126
आसुयुवपिरपिलपित्रपिचमश्च ॥
āsuyuvapirapilapitrapicamaśca
- 3.1.127
आनाय्योऽनित्ये ॥
ānāyyo'nitye
- 3.1.128
प्रणाय्योऽसंमतौ ॥
praṇāyyo'saṃmatau
- 3.1.129
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ॥
pāyyasānnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu
- 3.1.130
क्रतौ कुण्डपाय्यसंचाय्यौ ॥
kratau kuṇḍapāyyasaṃcāyyau
- 3.1.131
अग्नौ परिचाय्योपचाय्यसमूह्याः ॥
agnau paricāyyopacāyyasamūhyāḥ
- 3.1.132
चित्याग्निचित्ये च ॥
cityāgnicitye ca
- 3.1.133
ण्वुल्तृचौ ॥
ṇvultṛcau
- 3.1.134
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥
nandigrahipacādibhyo lyuṇinyacaḥ
- 3.1.135
इगुपधज्ञाप्रीकिरः कः ॥
igupadhajñāprīkiraḥ kaḥ
- 3.1.136
आतश्चोपसर्गे ॥
ātaścopasarge
- 3.1.137
पाघ्राध्माधेट्दृशः शः ॥
pāghrādhmādheṭdṛśaḥ śaḥ
- 3.1.138
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca
- 3.1.139
ददातिदधात्योर्विभाषा ॥
dadātidadhātyorvibhāṣā
- 3.1.140
ज्वलितिकसन्तेभ्यो णः ॥
jvalitikasantebhyo ṇaḥ
- 3.1.141
श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च ॥
śyādvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaśca
- 3.1.142
दुन्योरनुपसर्गे ॥
dunyoranupasarge
- 3.1.143
विभाषा ग्रहः ॥
vibhāṣā grahaḥ
- 3.1.144
गेहे कः ॥
gehe kaḥ
- 3.1.145
शिल्पिनि ष्वुन् ॥
śilpini ṣvun
- 3.1.146
गस्थकन् ॥
gasthakan
- 3.1.147
ण्युट् च ॥
ṇyuṭ ca
- 3.1.148
हश्च व्रीहिकालयोः ॥
haśca vrīhikālayoḥ
- 3.1.149
प्रुसृल्वः समभिहारे वुन् ॥
prusṛlvaḥ samabhihāre vun
- 3.1.150
आशिषि च ॥
āśiṣi ca
द्वितीयः पादः Pāda dvitīyaḥ
- 3.2.1
कर्मण्यण् ॥
karmaṇyaṇ
- 3.2.2
ह्वावामश्च ॥
hvāvāmaśca
- 3.2.3
आतोऽनुपसर्गे कः ॥
āto'nupasarge kaḥ
- 3.2.4
सुपि स्थः ॥
supi sthaḥ
- 3.2.5
तुन्दशोकयोः परिमृजापनुदोः ॥
tundaśokayoḥ parimṛjāpanudoḥ
- 3.2.6
प्रे दाज्ञः ॥
pre dājñaḥ
- 3.2.7
समि ख्यः ॥
sami khyaḥ
- 3.2.8
गापोष्टक् ॥
gāpoṣṭak
- 3.2.9
हरतेरनुद्यमनेऽच् ॥
harateranudyamane'c
- 3.2.10
वयसि च ॥
vayasi ca
- 3.2.11
आङि ताच्छील्ये ॥
āṅi tācchīlye
- 3.2.12
अर्हः ॥
arhaḥ
- 3.2.13
स्तम्बकर्णयो रमिजपोः ॥
stambakarṇayo ramijapoḥ
- 3.2.14
शमि धातोः संज्ञायाम् ॥
śami dhātoḥ saṃjñāyām
- 3.2.15
अधिकरणे शेतेः ॥
adhikaraṇe śeteḥ
- 3.2.16
चरेष्टः ॥
careṣṭaḥ
- 3.2.17
भिक्षासेनादायेषु च ॥
bhikṣāsenādāyeṣu ca
- 3.2.18
पुरोऽग्रतोऽग्रेषु सर्तेः ॥
puro'grato'greṣu sarteḥ
- 3.2.19
पूर्वे कर्तरि ॥
pūrve kartari
- 3.2.20
कृञो हेतुताच्छील्यानुलोम्येषु ॥
kṛño hetutācchīlyānulomyeṣu
- 3.2.21
दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु ॥
divāvibhāniśāprabhābhāskārāntānantādibahunāndīkimlipilibibalibhaktikartṛcitrakṣetrasaṃkhyājaṅghābāhvaharyattatdhanuraruṣṣu
- 3.2.22
कर्मणि भृतौ ॥
karmaṇi bhṛtau
- 3.2.23
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥
na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu
- 3.2.24
स्तम्बशकृतोरिन् ॥
stambaśakṛtorin
- 3.2.25
हरतेर्दृतिनाथयोः पशौ ॥
haraterdṛtināthayoḥ paśau
- 3.2.26
फलेग्रहिरात्मम्भरिश्च ॥
phalegrahirātmambhariśca
- 3.2.27
छन्दसि वनसनरक्षिमथाम् ॥
chandasi vanasanarakṣimathām
- 3.2.28
एजेः खश् ॥
ejeḥ khaś
- 3.2.29
नासिकास्तनयोर्ध्माधेटोः ॥
nāsikāstanayordhmādheṭoḥ
- 3.2.30
नाडीमुष्ट्योश्च ॥
nāḍīmuṣṭyośca
- 3.2.31
उदि कूले रुजिवहोः ॥
udi kūle rujivahoḥ
- 3.2.32
वहाभ्रे लिहः ॥
vahābhre lihaḥ
- 3.2.33
परिमाणे पचः ॥
parimāṇe pacaḥ
- 3.2.34
मितनखे च ॥
mitanakhe ca
- 3.2.35
विध्वरुषोस्तुदः ॥
vidhvaruṣostudaḥ
- 3.2.36
असूर्यललाटयोर्दृशितपोः ॥
asūryalalāṭayordṛśitapoḥ
- 3.2.37
उग्रम्पश्येरम्मदपाणिन्धमाश्च ॥
ugrampaśyerammadapāṇindhamāśca
- 3.2.38
प्रियवशे वदः खच् ॥
priyavaśe vadaḥ khac
- 3.2.39
द्विषत्परयोस्तापेः ॥
dviṣatparayostāpeḥ
- 3.2.40
वाचि यमो व्रते ॥
vāci yamo vrate
- 3.2.41
पूःसर्वयोर्दारिसहोः ॥
pūḥsarvayordārisahoḥ
- 3.2.42
सर्वकूलाभ्रकरीषेषु कषः ॥
sarvakūlābhrakarīṣeṣu kaṣaḥ
- 3.2.43
मेघर्तिभयेषु कृञः ॥
meghartibhayeṣu kṛñaḥ
- 3.2.44
क्षेमप्रियमद्रेऽण् च ॥
kṣemapriyamadre'ṇ ca
- 3.2.45
आशिते भुवः करणभावयोः ॥
āśite bhuvaḥ karaṇabhāvayoḥ
- 3.2.46
संज्ञायां भृतॄवृजिधारिसहितपिदमः ॥
saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ
- 3.2.47
गमश्च ॥
gamaśca
- 3.2.48
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ॥
antātyantādhvadūrapārasarvānanteṣu ḍaḥ
- 3.2.49
आशिषि हनः ॥
āśiṣi hanaḥ
- 3.2.50
अपे क्लेशतमसोः ॥
ape kleśatamasoḥ
- 3.2.51
कुमारशीर्षयोर्णिनिः ॥
kumāraśīrṣayorṇiniḥ
- 3.2.52
लक्षणे जायापत्योष्टक् ॥
lakṣaṇe jāyāpatyoṣṭak
- 3.2.53
अमनुष्यकर्तृके च ॥
amanuṣyakartṛke ca
- 3.2.54
शक्तौ हस्तिकपाटयोः ॥
śaktau hastikapāṭayoḥ
- 3.2.55
पाणिघताडघौ शिल्पिनि ॥
pāṇighatāḍaghau śilpini
- 3.2.56
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥
āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣvacvau kṛñaḥ karaṇe khyun
- 3.2.57
कर्तरि भुवः खिष्णुच्खुकञौ ॥
kartari bhuvaḥ khiṣṇuckhukañau
- 3.2.58
स्पृशोऽनुदके क्विन् ॥
spṛśo'nudake kvin
- 3.2.59
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥
ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca
- 3.2.60
त्यदादिषु दृशोऽनालोचने कञ् च ॥
tyadādiṣu dṛśo'nālocane kañ ca
- 3.2.61
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ॥
satsūdviṣadruhaduhayujavidabhidacchidajinīrājāmupasarge'pi kvip
- 3.2.62
भजो ण्विः ॥
bhajo ṇviḥ
- 3.2.63
छन्दसि सहः ॥
chandasi sahaḥ
- 3.2.64
वहश्च ॥
vahaśca
- 3.2.65
कव्यपुरीषपुरीष्येषु ञ्युट् ॥
kavyapurīṣapurīṣyeṣu ñyuṭ
- 3.2.66
हव्येऽनन्तः पादम् ॥
havye'nantaḥ pādam
- 3.2.67
जनसनखनक्रमगमो विट् ॥
janasanakhanakramagamo viṭ
- 3.2.68
अदोऽनन्ने ॥
ado'nanne
- 3.2.69
क्रव्ये च ॥
kravye ca
- 3.2.70
दुहः कब् घश्च ॥
duhaḥ kab ghaśca
- 3.2.71
मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥
mantre śvetavahokthaśaspuroḍāśo ṇvin
- 3.2.72
अवे यजः ॥
ave yajaḥ
- 3.2.73
विजुपे छन्दसि ॥
vijupe chandasi
- 3.2.74
आतो मनिन्क्वनिब्वनिपश्च ॥
āto maninkvanibvanipaśca
- 3.2.75
अन्येभ्योऽपि दृश्यन्ते ॥
anyebhyo'pi dṛśyante
- 3.2.76
क्विप् च ॥
kvip ca
- 3.2.77
स्थः क च ॥
sthaḥ ka ca
- 3.2.78
सुप्यजातौ णिनिस्ताच्छील्ये ॥
supyajātau ṇinistācchīlye
- 3.2.79
कर्तर्युपमाने ॥
kartaryupamāne
- 3.2.80
व्रते ॥
vrate
- 3.2.81
बहुलमाभीक्ष्ण्ये ॥
bahulamābhīkṣṇye
- 3.2.82
मनः ॥
manaḥ
- 3.2.83
आत्ममाने खश्च ॥
ātmamāne khaśca
- 3.2.84
भूते ॥
bhūte
- 3.2.85
करणे यजः ॥
karaṇe yajaḥ
- 3.2.86
कर्मणि हनः ॥
karmaṇi hanaḥ
- 3.2.87
ब्रह्मभ्रूणवृत्रेषु क्विप् ॥
brahmabhrūṇavṛtreṣu kvip
- 3.2.88
बहुलं छन्दसि ॥
bahulaṃ chandasi
- 3.2.89
सुकर्मपापमन्त्रपुण्येषु कृञः ॥
sukarmapāpamantrapuṇyeṣu kṛñaḥ
- 3.2.90
सोमे सुञः ॥
some suñaḥ
- 3.2.91
अग्नौ चेः ॥
agnau ceḥ
- 3.2.92
कर्मण्यग्न्याख्यायाम् ॥
karmaṇyagnyākhyāyām
- 3.2.93
कर्मणीनिविक्रियः ॥
karmaṇīnivikriyaḥ
- 3.2.94
दृशेः क्वनिप् ॥
dṛśeḥ kvanip
- 3.2.95
राजनि युधिकृञः ॥
rājani yudhikṛñaḥ
- 3.2.96
सहे च ॥
sahe ca
- 3.2.97
सप्तम्यां जनेर्डः ॥
saptamyāṃ janerḍaḥ
- 3.2.98
पञ्चम्यामजातौ ॥
pañcamyāmajātau
- 3.2.99
उपसर्गे च संज्ञायाम् ॥
upasarge ca saṃjñāyām
- 3.2.100
अनौ कर्मणि ॥
anau karmaṇi
- 3.2.101
अन्येष्वपि दृश्यते ॥
anyeṣvapi dṛśyate
- 3.2.102
निष्ठा ॥
niṣṭhā
- 3.2.103
सुयजोर्ङ्वनिप् ॥
suyajorṅvanip
- 3.2.104
जीर्यतेरतृन् ॥
jīryateratṛn
- 3.2.105
छन्दसि लिट् ॥
chandasi liṭ
- 3.2.106
लिटः कानज्वा ॥
liṭaḥ kānajvā
- 3.2.107
क्वसुश्च ॥
kvasuśca
- 3.2.108
भाषायां सदवसश्रुवः ॥
bhāṣāyāṃ sadavasaśruvaḥ
- 3.2.109
उपेयिवाननाश्वाननूचानश्च ॥
upeyivānanāśvānanūcānaśca
- 3.2.110
लुङ् ॥
luṅ
- 3.2.111
अनद्यतने लङ् ॥
anadyatane laṅ
- 3.2.112
अभिज्ञावचने लृट् ॥
abhijñāvacane lṛṭ
- 3.2.113
न यदि ॥
na yadi
- 3.2.114
विभाषा साकाङ्क्षे ॥
vibhāṣā sākāṅkṣe
- 3.2.115
परोक्षे लिट् ॥
parokṣe liṭ
- 3.2.116
हशश्वतोर्लङ् च ॥
haśaśvatorlaṅ ca
- 3.2.117
प्रश्ने चासन्नकाले ॥
praśne cāsannakāle
- 3.2.118
लट् स्मे ॥
laṭ sme
- 3.2.119
अपरोक्षे च ॥
aparokṣe ca
- 3.2.120
ननौ पृष्टप्रतिवचने ॥
nanau pṛṣṭaprativacane
- 3.2.121
नन्वोर्विभाषा ॥
nanvorvibhāṣā
- 3.2.122
पुरि लुङ् चास्मे ॥
puri luṅ cāsme
- 3.2.123
वर्तमाने लट् ॥
vartamāne laṭ
- 3.2.124
लटः शतृशानचावप्रथमासमानाधिकरणे ॥
laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe
- 3.2.125
सम्बोधने च ॥
sambodhane ca
- 3.2.126
लक्षणहेत्वोः क्रियायाः ॥
lakṣaṇahetvoḥ kriyāyāḥ
- 3.2.127
तौ सत् ॥
tau sat
- 3.2.128
पूङ्यजोः शानन् ॥
pūṅyajoḥ śānan
- 3.2.129
ताच्छील्यवयोवचनशक्तिषु चानश् ॥
tācchīlyavayovacanaśaktiṣu cānaś
- 3.2.130
इङ्धार्योः शत्रकृच्छ्रिणि ॥
iṅdhāryoḥ śatrakṛcchriṇi
- 3.2.131
द्विषोऽमित्रे ॥
dviṣo'mitre
- 3.2.132
सुञो यज्ञसंयोगे ॥
suño yajñasaṃyoge
- 3.2.133
अर्हः प्रशंसायाम् ॥
arhaḥ praśaṃsāyām
- 3.2.134
आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ॥
ākvestacchīlataddharmatatsādhukāriṣu
- 3.2.135
तृन् ॥
tṛn
- 3.2.136
अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc
- 3.2.137
णेश्छन्दसि ॥
ṇeśchandasi
- 3.2.138
भुवश्च ॥
bhuvaśca
- 3.2.139
ग्लाजिस्थश्च क्स्नुः ॥
glājisthaśca ksnuḥ
- 3.2.140
त्रसिगृधिधृषिक्षिपेः क्नुः ॥
trasigṛdhidhṛṣikṣipeḥ knuḥ
- 3.2.141
शमित्यष्टाभ्यो घिनुण् ॥
śamityaṣṭābhyo ghinuṇ
- 3.2.142
संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥
saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaśca
- 3.2.143
वौ कषलसकत्थस्रम्भः ॥
vau kaṣalasakatthasrambhaḥ
- 3.2.144
अपे च लषः ॥
ape ca laṣaḥ
- 3.2.145
प्रे लपसृद्रुमथवदवसः ॥
pre lapasṛdrumathavadavasaḥ
- 3.2.146
निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् ॥
nindahiṃsakliśakhādavināśaparikṣipapariraṭaparivādivyābhāṣāsūño vuñ
- 3.2.147
देविक्रुशोश्चोपसर्गे ॥
devikruśoścopasarge
- 3.2.148
चलनशब्दार्थादकर्मकाद्युच् ॥
calanaśabdārthādakarmakādyuc
- 3.2.149
अनुदात्तेतश्च हलादेः ॥
anudāttetaśca halādeḥ
- 3.2.150
जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥
jucaṅkramyadandramyasṛgṛdhijvalaśucalaṣapatapadaḥ
- 3.2.151
क्रुधमण्डार्थेभ्यश्च ॥
krudhamaṇḍārthebhyaśca
- 3.2.152
न यः ॥
na yaḥ
- 3.2.153
सूददीपदीक्षश्च ॥
sūdadīpadīkṣaśca
- 3.2.154
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ॥
laṣapatapadasthābhūvṛṣahanakamagamaśṝbhya ukañ
- 3.2.155
जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥
jalpabhikṣakuṭṭaluṇṭavṛṅaḥ ṣākan
- 3.2.156
प्रजोरिनिः ॥
prajoriniḥ
- 3.2.157
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥
jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaśca
- 3.2.158
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ॥
spṛhigṛhipatidayinidrātandrāśraddhābhya āluc
- 3.2.159
दाधेट्सिशदसदो रुः ॥
dādheṭsiśadasado ruḥ
- 3.2.160
सृघस्यदः क्मरच् ॥
sṛghasyadaḥ kmarac
- 3.2.161
भञ्जभासमिदो घुरच् ॥
bhañjabhāsamido ghurac
- 3.2.162
विदिभिदिच्छिदेः कुरच् ॥
vidibhidicchideḥ kurac
- 3.2.163
इण्नश्जिसर्त्तिभ्यः क्वरप् ॥
iṇnaśjisarttibhyaḥ kvarap
- 3.2.164
गत्वरश्च ॥
gatvaraśca
- 3.2.165
जागुरूकः ॥
jāgurūkaḥ
- 3.2.166
यजजपदशां यङः ॥
yajajapadaśāṃ yaṅaḥ
- 3.2.167
नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥
namikampismyajasakamahiṃsadīpo raḥ
- 3.2.168
सनाशंसभिक्ष उः ॥
sanāśaṃsabhikṣa uḥ
- 3.2.169
विन्दुरिच्छुः ॥
vinduricchuḥ
- 3.2.170
क्याच्छन्दसि ॥
kyācchandasi
- 3.2.171
आदृगमहनजनः किकिनौ लिट् च ॥
ādṛgamahanajanaḥ kikinau liṭ ca
- 3.2.172
स्वपितृषोर्नजिङ् ॥
svapitṛṣornajiṅ
- 3.2.173
शॄवन्द्योरारुः ॥
śṝvandyorāruḥ
- 3.2.174
भियः क्रुक्लुकनौ ॥
bhiyaḥ kruklukanau
- 3.2.175
स्थेशभासपिसकसो वरच् ॥
stheśabhāsapisakaso varac
- 3.2.176
यश्च यङः ॥
yaśca yaṅaḥ
- 3.2.177
भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ॥
bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip
- 3.2.178
अन्येभ्योऽपि दृश्यते ॥
anyebhyo'pi dṛśyate
- 3.2.179
भुवः संज्ञाऽन्तरयोः ॥
bhuvaḥ saṃjñā'ntarayoḥ
- 3.2.180
विप्रसम्भ्यो ड्वसंज्ञायाम् ॥
viprasambhyo ḍvasaṃjñāyām
- 3.2.181
धः कर्मणि ष्ट्रन् ॥
dhaḥ karmaṇi ṣṭran
- 3.2.182
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥
dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe
- 3.2.183
हलसूकरयोः पुवः ॥
halasūkarayoḥ puvaḥ
- 3.2.184
अर्तिलूधूसूखनसहचर इत्रः ॥
artilūdhūsūkhanasahacara itraḥ
- 3.2.185
पुवः संज्ञायाम् ॥
puvaḥ saṃjñāyām
- 3.2.186
कर्तरि चर्षिदेवतयोः ॥
kartari carṣidevatayoḥ
- 3.2.187
ञीतः क्तः ॥
ñītaḥ ktaḥ
- 3.2.188
मतिबुद्धिपूजार्थेभ्यश्च ॥
matibuddhipūjārthebhyaśca
तृतीयः पादः Pāda tṛtīyaḥ
- 3.3.1
उणादयो बहुलम् ॥
uṇādayo bahulam
- 3.3.2
भूतेऽपि दृश्यन्ते ॥
bhūte'pi dṛśyante
- 3.3.3
भविष्यति गम्यादयः ॥
bhaviṣyati gamyādayaḥ
- 3.3.4
यावत्पुरानिपातयोर्लट् ॥
yāvatpurānipātayorlaṭ
- 3.3.5
विभाषा कदाकर्ह्योः ॥
vibhāṣā kadākarhyoḥ
- 3.3.6
किंवृत्ते लिप्सायाम् ॥
kiṃvṛtte lipsāyām
- 3.3.7
लिप्स्यमानसिद्धौ च ॥
lipsyamānasiddhau ca
- 3.3.8
लोडर्थलक्षणे च ॥
loḍarthalakṣaṇe ca
- 3.3.9
लिङ् चोर्ध्वमौहूर्तिके ॥
liṅ cordhvamauhūrtike
- 3.3.10
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥
tumunṇvulau kriyāyāṃ kriyārthāyām
- 3.3.11
भाववचनाश्च ॥
bhāvavacanāśca
- 3.3.12
अण् कर्मणि च ॥
aṇ karmaṇi ca
- 3.3.13
लृट् शेषे च ॥
lṛṭ śeṣe ca
- 3.3.14
लृटः सद् वा ॥
lṛṭaḥ sad vā
- 3.3.15
अनद्यतने लुट् ॥
anadyatane luṭ
- 3.3.16
पदरुजविशस्पृशो घञ् ॥
padarujaviśaspṛśo ghañ
- 3.3.17
सृ स्थिरे ॥
sṛ sthire
- 3.3.18
भावे ॥
bhāve
- 3.3.19
अकर्तरि च कारके संज्ञायाम् ॥
akartari ca kārake saṃjñāyām
- 3.3.20
परिमाणाख्यायां सर्वेभ्यः ॥
parimāṇākhyāyāṃ sarvebhyaḥ
- 3.3.21
इङश्च ॥
iṅaśca
- 3.3.22
उपसर्गे रुवः ॥
upasarge ruvaḥ
- 3.3.23
समि युद्रुदुवः ॥
sami yudruduvaḥ
- 3.3.24
श्रिणीभुवोऽनुपसर्गे ॥
śriṇībhuvo'nupasarge
- 3.3.25
वौ क्षुश्रुवः ॥
vau kṣuśruvaḥ
- 3.3.26
अवोदोर्नियः ॥
avodorniyaḥ
- 3.3.27
प्रे द्रुस्तुस्रुवः ॥
pre drustusruvaḥ
- 3.3.28
निरभ्योः पूल्वोः ॥
nirabhyoḥ pūlvoḥ
- 3.3.29
उन्न्योर्ग्रः ॥
unnyorgraḥ
- 3.3.30
कॄ धान्ये ॥
kṝ dhānye
- 3.3.31
यज्ञे समि स्तुवः ॥
yajñe sami stuvaḥ
- 3.3.32
प्रे स्त्रोऽयज्ञे ॥
pre stro'yajñe
- 3.3.33
प्रथने वावशब्दे ॥
prathane vāvaśabde
- 3.3.34
छन्दोनाम्नि च ॥
chandonāmni ca
- 3.3.35
उदि ग्रहः ॥
udi grahaḥ
- 3.3.36
समि मुष्टौ ॥
sami muṣṭau
- 3.3.37
परिन्योर्नीणोर्द्यूताभ्रेषयोः ॥
parinyornīṇordyūtābhreṣayoḥ
- 3.3.38
परावनुपात्यय इणः ॥
parāvanupātyaya iṇaḥ
- 3.3.39
व्युपयोः शेतेः पर्याये ॥
vyupayoḥ śeteḥ paryāye
- 3.3.40
हस्तादाने चेरस्तेये ॥
hastādāne cerasteye
- 3.3.41
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥
nivāsacitiśarīropasamādhāneṣvādeśca kaḥ
- 3.3.42
संघे चानौत्तराधर्ये ॥
saṃghe cānauttarādharye
- 3.3.43
कर्मव्यतिहारे णच् स्त्रियाम् ॥
karmavyatihāre ṇac striyām
- 3.3.44
अभिविधौ भाव इनुण् ॥
abhividhau bhāva inuṇ
- 3.3.45
आक्रोशेऽवन्योर्ग्रहः ॥
ākrośe'vanyorgrahaḥ
- 3.3.46
प्रे लिप्सायाम् ॥
pre lipsāyām
- 3.3.47
परौ यज्ञे ॥
parau yajñe
- 3.3.48
नौ वृ धान्ये ॥
nau vṛ dhānye
- 3.3.49
उदि श्रयतियौतिपूद्रुवः ॥
udi śrayatiyautipūdruvaḥ
- 3.3.50
विभाषाऽऽङि रुप्लुवोः ॥
vibhāṣā''ṅi rupluvoḥ
- 3.3.51
अवे ग्रहो वर्षप्रतिबन्धे ॥
ave graho varṣapratibandhe
- 3.3.52
प्रे वणिजाम् ॥
pre vaṇijām
- 3.3.53
रश्मौ च ॥
raśmau ca
- 3.3.54
वृणोतेराच्छादने ॥
vṛṇoterācchādane
- 3.3.55
परौ भुवोऽवज्ञाने ॥
parau bhuvo'vajñāne
- 3.3.56
एरच् ॥
erac
- 3.3.57
ॠदोरप् ॥
ṝdorap
- 3.3.58
ग्रहवृदृनिश्चिगमश्च ॥
grahavṛdṛniścigamaśca
- 3.3.59
उपसर्गेऽदः ॥
upasarge'daḥ
- 3.3.60
नौ ण च ॥
nau ṇa ca
- 3.3.61
व्यधजपोरनुपसर्गे ॥
vyadhajaporanupasarge
- 3.3.62
स्वनहसोर्वा ॥
svanahasorvā
- 3.3.63
यमः समुपनिविषु च ॥
yamaḥ samupaniviṣu ca
- 3.3.64
नौ गदनदपठस्वनः ॥
nau gadanadapaṭhasvanaḥ
- 3.3.65
क्वणो वीणायां च ॥
kvaṇo vīṇāyāṃ ca
- 3.3.66
नित्यं पणः परिमाणे ॥
nityaṃ paṇaḥ parimāṇe
- 3.3.67
मदोऽनुपसर्गे ॥
mado'nupasarge
- 3.3.68
प्रमदसम्मदौ हर्षे ॥
pramadasammadau harṣe
- 3.3.69
समुदोरजः पशुषु ॥
samudorajaḥ paśuṣu
- 3.3.70
अक्षेषु ग्लहः ॥
akṣeṣu glahaḥ
- 3.3.71
प्रजने सर्तेः ॥
prajane sarteḥ
- 3.3.72
ह्वः सम्प्रसारणं च न्यभ्युपविषु ॥
hvaḥ samprasāraṇaṃ ca nyabhyupaviṣu
- 3.3.73
आङि युद्धे ॥
āṅi yuddhe
- 3.3.74
निपानमाहावः ॥
nipānamāhāvaḥ
- 3.3.75
भावेऽनुपसर्गस्य ॥
bhāve'nupasargasya
- 3.3.76
हनश्च वधः ॥
hanaśca vadhaḥ
- 3.3.77
मूर्तौ घनः ॥
mūrtau ghanaḥ
- 3.3.78
अन्तर्घनो देशे ॥
antarghano deśe
- 3.3.79
अगारैकदेशे प्रघणः प्रघाणश्च ॥
agāraikadeśe praghaṇaḥ praghāṇaśca
- 3.3.80
उद्घनोऽत्याधानम् ॥
udghano'tyādhānam
- 3.3.81
अपघनोऽङ्गम् ॥
apaghano'ṅgam
- 3.3.82
करणेऽयोविद्रुषु ॥
karaṇe'yovidruṣu
- 3.3.83
स्तम्बे क च ॥
stambe ka ca
- 3.3.84
परौ घः ॥
parau ghaḥ
- 3.3.85
उपघ्न आश्रये ॥
upaghna āśraye
- 3.3.86
संघोद्घौ गणप्रशंसयोः ॥
saṃghodghau gaṇapraśaṃsayoḥ
- 3.3.87
निघो निमितम् ॥
nigho nimitam
- 3.3.88
ड्वितः क्त्रिः ॥
ḍvitaḥ ktriḥ
- 3.3.89
ट्वितोऽथुच् ॥
ṭvito'thuc
- 3.3.90
यजयाचयतविच्छप्रच्छरक्षो नङ् ॥
yajayācayatavicchapraccharakṣo naṅ
- 3.3.91
स्वपो नन् ॥
svapo nan
- 3.3.92
उपसर्गे घोः किः ॥
upasarge ghoḥ kiḥ
- 3.3.93
कर्मण्यधिकरणे च ॥
karmaṇyadhikaraṇe ca
- 3.3.94
स्त्रियां क्तिन् ॥
striyāṃ ktin
- 3.3.95
स्थागापापचो भावे ॥
sthāgāpāpaco bhāve
- 3.3.96
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥
mantre vṛṣeṣapacamanavidabhūvīrā udāttaḥ
- 3.3.97
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥
ūtiyūtijūtisātihetikīrtayaśca
- 3.3.98
व्रजयजोर्भावे क्यप् ॥
vrajayajorbhāve kyap
- 3.3.99
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥
saṃjñāyāṃ samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ
- 3.3.100
कृञः श च ॥
kṛñaḥ śa ca
- 3.3.101
इच्छा ॥
icchā
- 3.3.102
अ प्रत्ययात् ॥
a pratyayāt
- 3.3.103
गुरोश्च हलः ॥
gurośca halaḥ
- 3.3.104
षिद्भिदादिभ्योऽङ् ॥
ṣidbhidādibhyo'ṅ
- 3.3.105
चिन्तिपूजिकथिकुम्बिचर्चश्च ॥
cintipūjikathikumbicarcaśca
- 3.3.106
आतश्चोपसर्गे ॥
ātaścopasarge
- 3.3.107
ण्यासश्रन्थो युच् ॥
ṇyāsaśrantho yuc
- 3.3.108
रोगाख्यायां ण्वुल् बहुलम् ॥
rogākhyāyāṃ ṇvul bahulam
- 3.3.109
संज्ञायाम् ॥
saṃjñāyām
- 3.3.110
विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च ॥
vibhāṣā''khyānaparipraśnayoriñ ca
- 3.3.111
पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥
paryāyārharṇotpattiṣu ṇvuc
- 3.3.112
आक्रोशे नञ्यनिः ॥
ākrośe nañyaniḥ
- 3.3.113
कृत्यल्युटो बहुलम् ॥
kṛtyalyuṭo bahulam
- 3.3.114
नपुंसके भावे क्तः ॥
napuṃsake bhāve ktaḥ
- 3.3.115
ल्युट् च ॥
lyuṭ ca
- 3.3.116
कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् ॥
karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham
- 3.3.117
करणाधिकरणयोश्च ॥
karaṇādhikaraṇayośca
- 3.3.118
पुंसि संज्ञायां घः प्रायेण ॥
puṃsi saṃjñāyāṃ ghaḥ prāyeṇa
- 3.3.119
गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥
gocarasaṃcaravahavrajavyajāpaṇanigamāśca
- 3.3.120
अवे तॄस्त्रोर्घञ् ॥
ave tṝstrorghañ
- 3.3.121
हलश्च ॥
halaśca
- 3.3.122
अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥
adhyāyanyāyodyāvasaṃhārādhārāvāyāśca
- 3.3.123
उदङ्कोऽनुदके ॥
udaṅko'nudake
- 3.3.124
जालमानायः ॥
jālamānāyaḥ
- 3.3.125
खनो घ च ॥
khano gha ca
- 3.3.126
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥
īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal
- 3.3.127
कर्तृकर्मणोश्च भूकृञोः ॥
kartṛkarmaṇośca bhūkṛñoḥ
- 3.3.128
आतो युच् ॥
āto yuc
- 3.3.129
छन्दसि गत्यर्थेभ्यः ॥
chandasi gatyarthebhyaḥ
- 3.3.130
अन्येभ्योऽपि दृश्यते ॥
anyebhyo'pi dṛśyate
- 3.3.131
वर्तमानसामीप्ये वर्तमानवद्वा ॥
vartamānasāmīpye vartamānavadvā
- 3.3.132
आशंसायां भूतवच्च ॥
āśaṃsāyāṃ bhūtavacca
- 3.3.133
क्षिप्रवचने लृट् ॥
kṣipravacane lṛṭ
- 3.3.134
आशंसावचने लिङ् ॥
āśaṃsāvacane liṅ
- 3.3.135
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ॥
nānadyatanavat kriyāprabandhasāmīpyayoḥ
- 3.3.136
भविष्यति मर्यादावचनेऽवरस्मिन् ॥
bhaviṣyati maryādāvacane'varasmin
- 3.3.137
कालविभागे चानहोरात्राणाम् ॥
kālavibhāge cānahorātrāṇām
- 3.3.138
परस्मिन् विभाषा ॥
parasmin vibhāṣā
- 3.3.139
लिङ्निमित्ते लृङ् क्रियातिपत्तौ ॥
liṅnimitte lṛṅ kriyātipattau
- 3.3.140
भूते च ॥
bhūte ca
- 3.3.141
वोताप्योः ॥
votāpyoḥ
- 3.3.142
गर्हायां लडपिजात्वोः ॥
garhāyāṃ laḍapijātvoḥ
- 3.3.143
विभाषा कथमि लिङ् च ॥
vibhāṣā kathami liṅ ca
- 3.3.144
किंवृत्ते लिङ्लृटौ ॥
kiṃvṛtte liṅlṛṭau
- 3.3.145
अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि ॥
anavakḷptyamarṣayorakiṃvṛtte'pi
- 3.3.146
किंकिलास्त्यर्थेषु लृट् ॥
kiṃkilāstyartheṣu lṛṭ
- 3.3.147
जातुयदोर्लिङ् ॥
jātuyadorliṅ
- 3.3.148
यच्चयत्रयोः ॥
yaccayatrayoḥ
- 3.3.149
गर्हायां च ॥
garhāyāṃ ca
- 3.3.150
चित्रीकरणे च ॥
citrīkaraṇe ca
- 3.3.151
शेषे लृडयदौ ॥
śeṣe lṛḍayadau
- 3.3.152
उताप्योः समर्थयोर्लिङ् ॥
utāpyoḥ samarthayorliṅ
- 3.3.153
कामप्रवेदनेऽकच्चिति ॥
kāmapravedane'kacciti
- 3.3.154
सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे ॥
sambhāvane'lamiti cet siddhāprayoge
- 3.3.155
विभाषा धातौ सम्भावनवचनेऽयदि ॥
vibhāṣā dhātau sambhāvanavacane'yadi
- 3.3.156
हेतुहेतुमतोर्लिङ् ॥
hetuhetumatorliṅ
- 3.3.157
इच्छार्थेषु लिङ्लोटौ ॥
icchārtheṣu liṅloṭau
- 3.3.158
समानकर्तृकेषु तुमुन् ॥
samānakartṛkeṣu tumun
- 3.3.159
लिङ् च ॥
liṅ ca
- 3.3.160
इच्छार्थेभ्यो विभाषा वर्तमाने ॥
icchārthebhyo vibhāṣā vartamāne
- 3.3.161
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥
vidhinimantraṇāmantraṇādhīṣṭasaṃpraśnaprārthaneṣu liṅ
- 3.3.162
लोट् च ॥
loṭ ca
- 3.3.163
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥
praiṣātisargaprāptakāleṣu kṛtyāśca
- 3.3.164
लिङ् चोर्ध्वमौहूर्तिके ॥
liṅ cordhvamauhūrtike
- 3.3.165
स्मे लोट् ॥
sme loṭ
- 3.3.166
अधीष्टे च ॥
adhīṣṭe ca
- 3.3.167
कालसमयवेलासु तुमुन् ॥
kālasamayavelāsu tumun
- 3.3.168
लिङ् यदि ॥
liṅ yadi
- 3.3.169
अर्हे कृत्यतृचश्च ॥
arhe kṛtyatṛcaśca
- 3.3.170
आवश्यकाधमर्ण्ययोर्णिनिः ॥
āvaśyakādhamarṇyayorṇiniḥ
- 3.3.171
कृत्याश्च ॥
kṛtyāśca
- 3.3.172
शकि लिङ् च ॥
śaki liṅ ca
- 3.3.173
आशिषि लिङ्लोटौ ॥
āśiṣi liṅloṭau
- 3.3.174
क्तिच्क्तौ च संज्ञायाम् ॥
kticktau ca saṃjñāyām
- 3.3.175
माङि लुङ् ॥
māṅi luṅ
- 3.3.176
स्मोत्तरे लङ् च ॥
smottare laṅ ca
चतुर्थः पादः Pāda caturthaḥ
- 3.4.1
धातुसम्बन्धे प्रत्ययाः ॥
dhātusambandhe pratyayāḥ
- 3.4.2
क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः ॥
kriyāsamabhihāre loṭ; loṭo hisvau; vā ca tadhvamoḥ
- 3.4.3
समुच्चयेऽन्यतरस्याम् ॥
samuccaye'nyatarasyām
- 3.4.4
यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥
yathāvidhyanuprayogaḥ pūrvasmin
- 3.4.5
समुच्चये सामान्यवचनस्य ॥
samuccaye sāmānyavacanasya
- 3.4.6
छन्दसि लुङ्लङ्लिटः ॥
chandasi luṅlaṅliṭaḥ
- 3.4.7
लिङर्थे लेट् ॥
liṅarthe leṭ
- 3.4.8
उपसंवादाशङ्कयोश्च ॥
upasaṃvādāśaṅkayośca
- 3.4.9
तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥
tumarthe sesenase'senksekasenadhyaiadhyainkadhyaikadhyainśadhyaiśadhyaintavaitaveṅtavenaḥ
- 3.4.10
प्रयै रोहिष्यै अव्यथिष्यै ॥
prayai rohiṣyai avyathiṣyai
- 3.4.11
दृशे विख्ये च ॥
dṛśe vikhye ca
- 3.4.12
शकि णमुल्कमुलौ ॥
śaki ṇamulkamulau
- 3.4.13
ईश्वरे तोसुन्कसुनौ ॥
īśvare tosunkasunau
- 3.4.14
कृत्यार्थे तवैकेन्केन्यत्वनः ॥
kṛtyārthe tavaikenkenyatvanaḥ
- 3.4.15
अवचक्षे च ॥
avacakṣe ca
- 3.4.16
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥
bhāvalakṣaṇe stheṇkṛñvadicarihutamijanibhyastosun
- 3.4.17
सृपितृदोः कसुन् ॥
sṛpitṛdoḥ kasun
- 3.4.18
अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥
alaṅkhalvoḥ pratiṣedhayoḥ prācāṃ ktvā
- 3.4.19
उदीचां माङो व्यतीहारे ॥
udīcāṃ māṅo vyatīhāre
- 3.4.20
परावरयोगे च ॥
parāvarayoge ca
- 3.4.21
समानकर्तृकयोः पूर्वकाले ॥
samānakartṛkayoḥ pūrvakāle
- 3.4.22
आभीक्ष्ण्ये णमुल् च ॥
ābhīkṣṇye ṇamul ca
- 3.4.23
न यद्यनाकाङ्क्षे ॥
na yadyanākāṅkṣe
- 3.4.24
विभाषाऽग्रेप्रथमपूर्वेषु ॥
vibhāṣā'greprathamapūrveṣu
- 3.4.25
कर्मण्याक्रोशे कृञः खमुञ् ॥
karmaṇyākrośe kṛñaḥ khamuñ
- 3.4.26
स्वादुमि णमुल् ॥
svādumi ṇamul
- 3.4.27
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥
anyathaivaṃkathamitthaṃsu siddhāprayogaścet
- 3.4.28
यथातथयोरसूयाप्रतिवचने ॥
yathātathayorasūyāprativacane
- 3.4.29
कर्मणि दृशिविदोः साकल्ये ॥
karmaṇi dṛśividoḥ sākalye
- 3.4.30
यावति विन्दजीवोः ॥
yāvati vindajīvoḥ
- 3.4.31
चर्मोदरयोः पूरेः ॥
carmodarayoḥ pūreḥ
- 3.4.32
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥
varṣapramāṇa ūlopaścāsyānyatarasyām
- 3.4.33
चेले क्नोपेः ॥
cele knopeḥ
- 3.4.34
निमूलसमूलयोः कषः ॥
nimūlasamūlayoḥ kaṣaḥ
- 3.4.35
शुष्कचूर्णरूक्षेषु पिषः ॥
śuṣkacūrṇarūkṣeṣu piṣaḥ
- 3.4.36
समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥
samūlākṛtajīveṣu hankṛñgrahaḥ
- 3.4.37
करणे हनः ॥
karaṇe hanaḥ
- 3.4.38
स्नेहने पिषः ॥
snehane piṣaḥ
- 3.4.39
हस्ते वर्त्तिग्रहोः ॥
haste varttigrahoḥ
- 3.4.40
स्वे पुषः ॥
sve puṣaḥ
- 3.4.41
अधिकरणे बन्धः ॥
adhikaraṇe bandhaḥ
- 3.4.42
संज्ञायाम् ॥
saṃjñāyām
- 3.4.43
कर्त्रोर्जीवपुरुषयोर्नशिवहोः ॥
kartrorjīvapuruṣayornaśivahoḥ
- 3.4.44
ऊर्ध्वे शुषिपूरोः ॥
ūrdhve śuṣipūroḥ
- 3.4.45
उपमाने कर्मणि च ॥
upamāne karmaṇi ca
- 3.4.46
कषादिषु यथाविध्यनुप्रयोगः ॥
kaṣādiṣu yathāvidhyanuprayogaḥ
- 3.4.47
उपदंशस्तृतीयायाम् ॥
upadaṃśastṛtīyāyām
- 3.4.48
हिंसार्थानां च समानकर्मकाणाम् ॥
hiṃsārthānāṃ ca samānakarmakāṇām
- 3.4.49
सप्तम्यां चोपपीडरुधकर्षः ॥
saptamyāṃ copapīḍarudhakarṣaḥ
- 3.4.50
समासत्तौ ॥
samāsattau
- 3.4.51
प्रमाणे च ॥
pramāṇe ca
- 3.4.52
अपादाने परीप्सायाम् ॥
apādāne parīpsāyām
- 3.4.53
द्वितीयायां च ॥
dvitīyāyāṃ ca
- 3.4.54
स्वाङ्गेऽध्रुवे ॥
svāṅge'dhruve
- 3.4.55
परिक्लिश्यमाने च ॥
parikliśyamāne ca
- 3.4.56
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ॥
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ
- 3.4.57
अस्यतितृषोः क्रियाऽन्तरे कालेषु ॥
asyatitṛṣoḥ kriyā'ntare kāleṣu
- 3.4.58
नाम्न्यादिशिग्रहोः ॥
nāmnyādiśigrahoḥ
- 3.4.59
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥
avyaye'yathābhipretākhyāne kṛñaḥ ktvāṇamulau
- 3.4.60
तिर्यच्यपवर्गे ॥
tiryacyapavarge
- 3.4.61
स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥
svāṅge taspratyaye kṛbhvoḥ
- 3.4.62
नाधाऽर्थप्रत्यये च्व्यर्थे ॥
nādhā'rthapratyaye cvyarthe
- 3.4.63
तूष्णीमि भुवः ॥
tūṣṇīmi bhuvaḥ
- 3.4.64
अन्वच्यानुलोम्ये ॥
anvacyānulomye
- 3.4.65
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥
śakadhṛṣajñāglāghaṭarabhalabhakramasahārhāstyartheṣu tumun
- 3.4.66
पर्याप्तिवचनेष्वलमर्थेषु ॥
paryāptivacaneṣvalamartheṣu
- 3.4.67
कर्तरि कृत् ॥
kartari kṛt
- 3.4.68
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥
bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā
- 3.4.69
लः कर्मणि च भावे चाकर्मकेभ्यः ॥
laḥ karmaṇi ca bhāve cākarmakebhyaḥ
- 3.4.70
तयोरेव कृत्यक्तखलर्थाः ॥
tayoreva kṛtyaktakhalarthāḥ
- 3.4.71
आदिकर्मणि क्तः कर्तरि च ॥
ādikarmaṇi ktaḥ kartari ca
- 3.4.72
गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ॥
gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca
- 3.4.73
दाशगोघ्नौ सम्प्रदाने ॥
dāśagoghnau sampradāne
- 3.4.74
भीमादयोऽपादाने ॥
bhīmādayo'pādāne
- 3.4.75
ताभ्यामन्यत्रोणादयः ॥
tābhyāmanyatroṇādayaḥ
- 3.4.76
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥
kto'dhikaraṇe ca dhrauvyagatipratyavasānārthebhyaḥ
- 3.4.77
लस्य ॥
lasya
- 3.4.78
तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् ॥
tiptasjhisipthasthamibvasmas tātāṃjhathāsāthāṃdhvamiḍvahimahiṅ
- 3.4.79
टित आत्मनेपदानां टेरे ॥
ṭita ātmanepadānāṃ ṭere
- 3.4.80
थासस्से ॥
thāsasse
- 3.4.81
लिटस्तझयोरेशिरेच् ॥
liṭastajhayoreśirec
- 3.4.82
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ
- 3.4.83
विदो लटो वा ॥
vido laṭo vā
- 3.4.84
ब्रुवः पञ्चानामादित आहो ब्रुवः ॥
bruvaḥ pañcānāmādita āho bruvaḥ
- 3.4.85
लोटो लङ्वत् ॥
loṭo laṅvat
- 3.4.86
एरुः ॥
eruḥ
- 3.4.87
सेर्ह्यपिच्च ॥
serhyapicca
- 3.4.88
वा छन्दसि ॥
vā chandasi
- 3.4.89
मेर्निः ॥
merniḥ
- 3.4.90
आमेतः ॥
āmetaḥ
- 3.4.91
सवाभ्यां वामौ ॥
savābhyāṃ vāmau
- 3.4.92
आडुत्तमस्य पिच्च ॥
āḍuttamasya picca
- 3.4.93
एत ऐ ॥
eta ai
- 3.4.94
लेटोऽडाटौ ॥
leṭo'ḍāṭau
- 3.4.95
आत ऐ ॥
āta ai
- 3.4.96
वैतोऽन्यत्र ॥
vaito'nyatra
- 3.4.97
इतश्च लोपः परस्मैपदेषु ॥
itaśca lopaḥ parasmaipadeṣu
- 3.4.98
स उत्तमस्य ॥
sa uttamasya
- 3.4.99
नित्यं ङितः ॥
nityaṃ ṅitaḥ
- 3.4.100
इतश्च ॥
itaśca
- 3.4.101
तस्थस्थमिपां तांतंतामः ॥
tasthasthamipāṃ tāṃtaṃtāmaḥ
- 3.4.102
लिङस्सीयुट् ॥
liṅassīyuṭ
- 3.4.103
यासुट् परस्मैपदेषूदात्तो ङिच्च ॥
yāsuṭ parasmaipadeṣūdātto ṅicca
- 3.4.104
किदाशिषि ॥
kidāśiṣi
- 3.4.105
झस्य रन् ॥
jhasya ran
- 3.4.106
इटोऽत् ॥
iṭo't
- 3.4.107
सुट् तिथोः ॥
suṭ tithoḥ
- 3.4.108
झेर्जुस् ॥
jherjus
- 3.4.109
सिजभ्यस्तविदिभ्यश्च ॥
sijabhyastavidibhyaśca
- 3.4.110
आतः ॥
ātaḥ
- 3.4.111
लङः शाकटायनस्यैव ॥
laṅaḥ śākaṭāyanasyaiva
- 3.4.112
द्विषश्च ॥
dviṣaśca
- 3.4.113
तिङ्शित्सार्वधातुकम् ॥
tiṅśitsārvadhātukam
- 3.4.114
आर्धधातुकं शेषः ॥
ārdhadhātukaṃ śeṣaḥ
- 3.4.115
लिट् च ॥
liṭ ca
- 3.4.116
लिङाशिषि ॥
liṅāśiṣi
- 3.4.117
छन्दस्युभयथा ॥
chandasyubhayathā