द्वितीयोऽध्यायः Adhyāya 2
Under each sūtra: Words, its words with sandhi undone. Carried, words it takes over from earlier rules, with the rule each comes from. Under, the headings whose area it falls in. A tag marks a rule that is not an ordinary operation. How to read an entry.
प्रथमः पादः Pāda prathamaḥ
- 2.1.1
समर्थः पदविधिः ॥
samarthaḥ padavidhiḥ
- 2.1.2
सुबामन्त्रिते पराङ्गवत् स्वरे ॥
subāmantrite parāṅgavat svare
- 2.1.3
प्राक् कडारात् समासः ॥
prāk kaḍārāt samāsaḥ
- 2.1.4
सह सुपा ॥
saha supā
- 2.1.5
अव्ययीभावः ॥
avyayībhāvaḥ
- 2.1.6
अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु ॥
avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu
- 2.1.7
यथासादृश्ये ॥
yathāsādṛśye
- 2.1.8
यावदवधारणे ॥
yāvadavadhāraṇe
- 2.1.9
सुप्प्रतिना मात्रार्थे ॥
suppratinā mātrārthe
- 2.1.10
अक्षशलाकासंख्याः परिणा ॥
akṣaśalākāsaṃkhyāḥ pariṇā
- 2.1.11
विभाषा ॥
vibhāṣā
- 2.1.12
अपपरिबहिरञ्चवः पञ्चम्या ॥
apaparibahirañcavaḥ pañcamyā
- 2.1.13
आङ् मर्यादाभिविध्योः ॥
āṅ maryādābhividhyoḥ
- 2.1.14
लक्षणेनाभिप्रती आभिमुख्ये ॥
lakṣaṇenābhipratī ābhimukhye
- 2.1.15
अनुर्यत्समया ॥
anuryatsamayā
- 2.1.16
यस्य चायामः ॥
yasya cāyāmaḥ
- 2.1.17
तिष्ठद्गुप्रभृतीनि च ॥
tiṣṭhadguprabhṛtīni ca
- 2.1.18
पारे मध्ये षष्ठ्या वा ॥
pāre madhye ṣaṣṭhyā vā
- 2.1.19
संख्या वंश्येन ॥
saṃkhyā vaṃśyena
- 2.1.20
नदीभिश्च ॥
nadībhiśca
- 2.1.21
अन्यपदार्थे च संज्ञायाम् ॥
anyapadārthe ca saṃjñāyām
- 2.1.22
तत्पुरुषः ॥
tatpuruṣaḥ
- 2.1.23
द्विगुश्च ॥
dviguśca
- 2.1.24
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ॥
dvitīyā śritātītapatitagatātyastaprāptāpannaiḥ
- 2.1.25
स्वयं क्तेन ॥
svayaṃ ktena
- 2.1.26
खट्वा क्षेपे ॥
khaṭvā kṣepe
- 2.1.27
सामि ॥
sāmi
- 2.1.28
कालाः ॥
kālāḥ
- 2.1.29
अत्यन्तसंयोगे च ॥
atyantasaṃyoge ca
- 2.1.30
तृतीया तत्कृतार्थेन गुणवचनेन ॥
tṛtīyā tatkṛtārthena guṇavacanena
- 2.1.31
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥
pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ
- 2.1.32
कर्तृकरणे कृता बहुलम् ॥
kartṛkaraṇe kṛtā bahulam
- 2.1.33
कृत्यैरधिकार्थवचने ॥
kṛtyairadhikārthavacane
- 2.1.34
अन्नेन व्यञ्जनम् ॥
annena vyañjanam
- 2.1.35
भक्ष्येण मिश्रीकरणम् ॥
bhakṣyeṇa miśrīkaraṇam
- 2.1.36
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥
caturthī tadarthārthabalihitasukharakṣitaiḥ
- 2.1.37
पञ्चमी भयेन ॥
pañcamī bhayena
- 2.1.38
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥
apetāpoḍhamuktapatitāpatrastairalpaśaḥ
- 2.1.39
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥
stokāntikadūrārthakṛcchrāṇi ktena
- 2.1.40
सप्तमी शौण्डैः ॥
saptamī śauṇḍaiḥ
- 2.1.41
सिद्धशुष्कपक्वबन्धैश्च ॥
siddhaśuṣkapakvabandhaiśca
- 2.1.42
ध्वाङ्क्षेण क्षेपे ॥
dhvāṅkṣeṇa kṣepe
- 2.1.43
कृत्यैर्ऋणे ॥
kṛtyairṛṇe
- 2.1.44
संज्ञायाम् ॥
saṃjñāyām
- 2.1.45
क्तेनाहोरात्रावयवाः ॥
ktenāhorātrāvayavāḥ
- 2.1.46
तत्र ॥
tatra
- 2.1.47
क्षेपे ॥
kṣepe
- 2.1.48
पात्रेसमितादयश्च ॥
pātresamitādayaśca
- 2.1.49
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥
pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena
- 2.1.50
दिक्संख्ये संज्ञायाम् ॥
diksaṃkhye saṃjñāyām
- 2.1.51
तद्धितार्थोत्तरपदसमाहारे च ॥
taddhitārthottarapadasamāhāre ca
- 2.1.52
संख्यापूर्वो द्विगुः ॥
saṃkhyāpūrvo dviguḥ
- 2.1.53
कुत्सितानि कुत्सनैः ॥
kutsitāni kutsanaiḥ
- 2.1.54
पापाणके कुत्सितैः ॥
pāpāṇake kutsitaiḥ
- 2.1.55
उपमानानि सामान्यवचनैः ॥
upamānāni sāmānyavacanaiḥ
- 2.1.56
उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥
upamitaṃ vyāghrādibhiḥ sāmānyāprayoge
- 2.1.57
विशेषणं विशेष्येण बहुलम् ॥
viśeṣaṇaṃ viśeṣyeṇa bahulam
- 2.1.58
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥
pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāśca
- 2.1.59
श्रेण्यादयः कृतादिभिः ॥
śreṇyādayaḥ kṛtādibhiḥ
- 2.1.60
क्तेन नञ्विशिष्टेनानञ् ॥
ktena nañviśiṣṭenānañ
- 2.1.61
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥
sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ
- 2.1.62
वृन्दारकनागकुञ्जरैः पूज्यमानम् ॥
vṛndārakanāgakuñjaraiḥ pūjyamānam
- 2.1.63
कतरकतमौ जातिपरिप्रश्ने ॥
katarakatamau jātiparipraśne
- 2.1.64
किं क्षेपे ॥
kiṃ kṣepe
- 2.1.65
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ॥
poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehatbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtairjātiḥ
- 2.1.66
प्रशंसावचनैश्च ॥
praśaṃsāvacanaiśca
- 2.1.67
युवा खलतिपलितवलिनजरतीभिः ॥
yuvā khalatipalitavalinajaratībhiḥ
- 2.1.68
कृत्यतुल्याख्या अजात्या ॥
kṛtyatulyākhyā ajātyā
- 2.1.69
वर्णो वर्णेन ॥
varṇo varṇena
- 2.1.70
कुमारः श्रमणादिभिः ॥
kumāraḥ śramaṇādibhiḥ
- 2.1.71
चतुष्पादो गर्भिण्या ॥
catuṣpādo garbhiṇyā
- 2.1.72
मयूरव्यंसकादयश्च ॥
mayūravyaṃsakādayaśca
द्वितीयः पादः Pāda dvitīyaḥ
- 2.2.1
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ॥
pūrvāparādharottaramekadeśinaikādhikaraṇe
- 2.2.2
अर्धं नपुंसकम् ॥
ardhaṃ napuṃsakam
- 2.2.3
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥
dvitīyatṛtīyacaturthaturyāṇyanyatarasyām
- 2.2.4
प्राप्तापन्ने च द्वितीयया ॥
prāptāpanne ca dvitīyayā
- 2.2.5
कालाः परिमाणिना ॥
kālāḥ parimāṇinā
- 2.2.6
नञ् ॥
nañ
- 2.2.7
ईषदकृता ॥
īṣadakṛtā
- 2.2.8
षष्ठी ॥
ṣaṣṭhī
- 2.2.9
याजकादिभिश्च ॥
yājakādibhiśca
- 2.2.10
न निर्धारणे ॥
na nirdhāraṇe
- 2.2.11
पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ॥
pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena
- 2.2.12
क्तेन च पूजायाम् ॥
ktena ca pūjāyām
- 2.2.13
अधिकरणवाचिना च ॥
adhikaraṇavācinā ca
- 2.2.14
कर्मणि च ॥
karmaṇi ca
- 2.2.15
तृजकाभ्यां कर्तरि ॥
tṛjakābhyāṃ kartari
- 2.2.16
कर्तरि च ॥
kartari ca
- 2.2.17
नित्यं क्रीडाजीविकयोः ॥
nityaṃ krīḍājīvikayoḥ
- 2.2.18
कुगतिप्रादयः ॥
kugatiprādayaḥ
- 2.2.19
उपपदमतिङ् ॥
upapadamatiṅ
- 2.2.20
अमैवाव्ययेन ॥
amaivāvyayena
- 2.2.21
तृतीयाप्रभृतीन्यन्यतरस्याम् ॥
tṛtīyāprabhṛtīnyanyatarasyām
- 2.2.22
क्त्वा च ॥
ktvā ca
- 2.2.23
शेषो बहुव्रीहिः ॥
śeṣo bahuvrīhiḥ
- 2.2.24
अनेकमन्यपदार्थे ॥
anekamanyapadārthe
- 2.2.25
संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ॥
saṃkhyayā'vyayāsannādūrādhikasaṃkhyāḥ saṃkhyeye
- 2.2.26
दिङ्नामान्यन्तराले ॥
diṅnāmānyantarāle
- 2.2.27
तत्र तेनेदमिति सरूपे ॥
tatra tenedamiti sarūpe
- 2.2.28
तेन सहेति तुल्ययोगे ॥
tena saheti tulyayoge
- 2.2.29
चार्थे द्वन्द्वः ॥
cārthe dvandvaḥ
- 2.2.30
उपसर्जनं पूर्वम् ॥
upasarjanaṃ pūrvam
- 2.2.31
राजदन्तादिषु परम् ॥
rājadantādiṣu param
- 2.2.32
द्वन्द्वे घि ॥
dvandve ghi
- 2.2.33
अजाद्यदन्तम् ॥
ajādyadantam
- 2.2.34
अल्पाच्तरम् ॥
alpāctaram
- 2.2.35
सप्तमीविशेषणे बहुव्रीहौ ॥
saptamīviśeṣaṇe bahuvrīhau
- 2.2.36
निष्ठा ॥
niṣṭhā
- 2.2.37
वाहिताग्न्यादिषु ॥
vāhitāgnyādiṣu
- 2.2.38
कडाराः कर्मधारये ॥
kaḍārāḥ karmadhāraye
तृतीयः पादः Pāda tṛtīyaḥ
- 2.3.1
अनभिहिते ॥
anabhihite
- 2.3.2
कर्मणि द्वितीया ॥
karmaṇi dvitīyā
- 2.3.3
तृतीया च होश्छन्दसि ॥
tṛtīyā ca hośchandasi
- 2.3.4
अन्तराऽन्तरेण युक्ते ॥
antarā'ntareṇa yukte
- 2.3.5
कालाध्वनोरत्यन्तसंयोगे ॥
kālādhvanoratyantasaṃyoge
- 2.3.6
अपवर्गे तृतीया ॥
apavarge tṛtīyā
- 2.3.7
सप्तमीपञ्चम्यौ कारकमध्ये ॥
saptamīpañcamyau kārakamadhye
- 2.3.8
कर्मप्रवचनीययुक्ते द्वितीया ॥
karmapravacanīyayukte dvitīyā
- 2.3.9
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥
yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī
- 2.3.10
पञ्चम्यपाङ्परिभिः ॥
pañcamyapāṅparibhiḥ
- 2.3.11
प्रतिनिधिप्रतिदाने च यस्मात् ॥
pratinidhipratidāne ca yasmāt
- 2.3.12
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥
gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyāmanadhvani
- 2.3.13
चतुर्थी सम्प्रदाने ॥
caturthī sampradāne
- 2.3.14
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥
kriyārthopapadasya ca karmaṇi sthāninaḥ
- 2.3.15
तुमर्थाच्च भाववचनात् ॥
tumarthācca bhāvavacanāt
- 2.3.16
नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च ॥
namaḥsvastisvāhāsvadhālamvaṣaḍyogācca
- 2.3.17
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥
manyakarmaṇyanādare vibhāṣā'prāṇiṣu
- 2.3.18
कर्तृकरणयोस्तृतीया ॥
kartṛkaraṇayostṛtīyā
- 2.3.19
सहयुक्तेऽप्रधाने ॥
sahayukte'pradhāne
- 2.3.20
येनाङ्गविकारः ॥
yenāṅgavikāraḥ
- 2.3.21
इत्थंभूतलक्षणे ॥
itthaṃbhūtalakṣaṇe
- 2.3.22
संज्ञोऽन्यतरस्यां कर्मणि ॥
saṃjño'nyatarasyāṃ karmaṇi
- 2.3.23
हेतौ ॥
hetau
- 2.3.24
अकर्तर्यृणे पञ्चमी ॥
akartaryṛṇe pañcamī
- 2.3.25
विभाषा गुणेऽस्त्रियाम् ॥
vibhāṣā guṇe'striyām
- 2.3.26
षष्ठी हेतुप्रयोगे ॥
ṣaṣṭhī hetuprayoge
- 2.3.27
सर्वनाम्नस्तृतीया च ॥
sarvanāmnastṛtīyā ca
- 2.3.28
अपादाने पञ्चमी ॥
apādāne pañcamī
- 2.3.29
अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते ॥
anyārāditarartedikchabdāñcūttarapadājāhiyukte
- 2.3.30
षष्ठ्यतसर्थप्रत्ययेन ॥
ṣaṣṭhyatasarthapratyayena
- 2.3.31
एनपा द्वितीया ॥
enapā dvitīyā
- 2.3.32
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥
pṛthagvinānānābhistṛtīyā'nyatarasyām
- 2.3.33
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ॥
karaṇe ca stokālpakṛcchrakatipayasyāsattvavacanasya
- 2.3.34
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥
dūrāntikārthaiḥ ṣaṣṭhyanyatarasyām
- 2.3.35
दूरान्तिकार्थेभ्यो द्वितीया च ॥
dūrāntikārthebhyo dvitīyā ca
- 2.3.36
सप्तम्यधिकरणे च ॥
saptamyadhikaraṇe ca
- 2.3.37
यस्य च भावेन भावलक्षणम् ॥
yasya ca bhāvena bhāvalakṣaṇam
- 2.3.38
षष्ठी चानादरे ॥
ṣaṣṭhī cānādare
- 2.3.39
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiśca
- 2.3.40
आयुक्तकुशलाभ्यां चासेवायाम् ॥
āyuktakuśalābhyāṃ cāsevāyām
- 2.3.41
यतश्च निर्धारणम् ॥
yataśca nirdhāraṇam
- 2.3.42
पञ्चमी विभक्ते ॥
pañcamī vibhakte
- 2.3.43
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥
sādhunipuṇābhyāmarcāyāṃ saptamyaprateḥ
- 2.3.44
प्रसितोत्सुकाभ्यां तृतीया च ॥
prasitotsukābhyāṃ tṛtīyā ca
- 2.3.45
नक्षत्रे च लुपि ॥
nakṣatre ca lupi
- 2.3.46
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥
prātipadikārthaliṅgaparimāṇavacanamātre prathamā
- 2.3.47
सम्बोधने च ॥
sambodhane ca
- 2.3.48
सामन्त्रितम् ॥
sāmantritam
- 2.3.49
एकवचनं संबुद्धिः ॥
ekavacanaṃ saṃbuddhiḥ
- 2.3.50
षष्ठी शेषे ॥
ṣaṣṭhī śeṣe
- 2.3.51
ज्ञोऽविदर्थस्य करणे ॥
jño'vidarthasya karaṇe
- 2.3.52
अधीगर्थदयेशां कर्मणि ॥
adhīgarthadayeśāṃ karmaṇi
- 2.3.53
कृञः प्रतियत्ने ॥
kṛñaḥ pratiyatne
- 2.3.54
रुजार्थानां भाववचनानामज्वरेः ॥
rujārthānāṃ bhāvavacanānāmajvareḥ
- 2.3.55
आशिषि नाथः ॥
āśiṣi nāthaḥ
- 2.3.56
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥
jāsiniprahaṇanāṭakrāthapiṣāṃ hiṃsāyām
- 2.3.57
व्यवहृपणोः समर्थयोः ॥
vyavahṛpaṇoḥ samarthayoḥ
- 2.3.58
दिवस्तदर्थस्य ॥
divastadarthasya
- 2.3.59
विभाषोपसर्गे ॥
vibhāṣopasarge
- 2.3.60
द्वितीया ब्राह्मणे ॥
dvitīyā brāhmaṇe
- 2.3.61
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ॥
preṣyabruvorhaviṣo devatāsampradāne
- 2.3.62
चतुर्थ्यर्थे बहुलं छन्दसि ॥
caturthyarthe bahulaṃ chandasi
- 2.3.63
यजेश्च करणे ॥
yajeśca karaṇe
- 2.3.64
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥
kṛtvo'rthaprayoge kāle'dhikaraṇe
- 2.3.65
कर्तृकर्मणोः कृति ॥
kartṛkarmaṇoḥ kṛti
- 2.3.66
उभयप्राप्तौ कर्मणि ॥
ubhayaprāptau karmaṇi
- 2.3.67
क्तस्य च वर्तमाने ॥
ktasya ca vartamāne
- 2.3.68
अधिकरणवाचिनश्च ॥
adhikaraṇavācinaśca
- 2.3.69
न लोकाव्ययनिष्ठाखलर्थतृनाम् ॥
na lokāvyayaniṣṭhākhalarthatṛnām
- 2.3.70
अकेनोर्भविष्यदाधमर्ण्ययोः ॥
akenorbhaviṣyadādhamarṇyayoḥ
- 2.3.71
कृत्यानां कर्तरि वा ॥
kṛtyānāṃ kartari vā
- 2.3.72
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām
- 2.3.73
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥
caturthī cāśiṣyāyuṣyamadrabhadrakuśalasukhārthahitaiḥ
चतुर्थः पादः Pāda caturthaḥ
- 2.4.1
द्विगुरेकवचनम् ॥
dvigurekavacanam
- 2.4.2
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥
dvandvaśca prāṇitūryasenāṅgānām
- 2.4.3
अनुवादे चरणानाम् ॥
anuvāde caraṇānām
- 2.4.4
अध्वर्युक्रतुरनपुंसकम् ॥
adhvaryukraturanapuṃsakam
- 2.4.5
अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥
adhyayanato'viprakṛṣṭākhyānām
- 2.4.6
जातिरप्राणिनाम् ॥
jātiraprāṇinām
- 2.4.7
विशिष्टलिङ्गो नदी देशोऽग्रामाः ॥
viśiṣṭaliṅgo nadī deśo'grāmāḥ
- 2.4.8
क्षुद्रजन्तवः ॥
kṣudrajantavaḥ
- 2.4.9
येषां च विरोधः शाश्वतिकः ॥
yeṣāṃ ca virodhaḥ śāśvatikaḥ
- 2.4.10
शूद्राणामनिरवसितानाम् ॥
śūdrāṇāmaniravasitānām
- 2.4.11
गवाश्वप्रभृतीनि च ॥
gavāśvaprabhṛtīni ca
- 2.4.12
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥
vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām
- 2.4.13
विप्रतिषिद्धं चानधिकरणवाचि ॥
vipratiṣiddhaṃ cānadhikaraṇavāci
- 2.4.14
न दधिपयआदीनि ॥
na dadhipayaādīni
- 2.4.15
अधिकरणैतावत्त्वे च ॥
adhikaraṇaitāvattve ca
- 2.4.16
विभाषा समीपे ॥
vibhāṣā samīpe
- 2.4.17
स नपुंसकम् ॥
sa napuṃsakam
- 2.4.18
अव्ययीभावश्च ॥
avyayībhāvaśca
- 2.4.19
तत्पुरुषोऽनञ् कर्मधारयः ॥
tatpuruṣo'nañ karmadhārayaḥ
- 2.4.20
संज्ञायां कन्थोशीनरेषु ॥
saṃjñāyāṃ kanthośīnareṣu
- 2.4.21
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥
upajñopakramaṃ tadādyācikhyāsāyām
- 2.4.22
छाया बाहुल्ये ॥
chāyā bāhulye
- 2.4.23
सभा राजामनुष्यपूर्वा ॥
sabhā rājāmanuṣyapūrvā
- 2.4.24
अशाला च ॥
aśālā ca
- 2.4.25
विभाषा सेनासुराच्छायाशालानिशानाम् ॥
vibhāṣā senāsurācchāyāśālāniśānām
- 2.4.26
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥
paravalliṅgaṃ dvandvatatpuruṣayoḥ
- 2.4.27
पूर्ववदश्ववडवौ ॥
pūrvavadaśvavaḍavau
- 2.4.28
हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥
hemantaśiśirāvahorātre ca cchandasi
- 2.4.29
रात्राह्नाहाः पुंसि ॥
rātrāhnāhāḥ puṃsi
- 2.4.30
अपथं नपुंसकम् ॥
apathaṃ napuṃsakam
- 2.4.31
अर्धर्चाः पुंसि च ॥
ardharcāḥ puṃsi ca
- 2.4.32
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥
idamo'nvādeśe'śanudāttastṛtīyādau
- 2.4.33
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥
etadastratasostratasau cānudāttau
- 2.4.34
द्वितीयाटौस्स्वेनः ॥
dvitīyāṭaussvenaḥ
- 2.4.35
आर्धधातुके ॥
ārdhadhātuke
- 2.4.36
अदो जग्धिर्ल्यप्ति किति ॥
ado jagdhirlyapti kiti
- 2.4.37
लुङ्सनोर्घसॢ ॥
luṅsanorghasḷ
- 2.4.38
घञपोश्च ॥
ghañapośca
- 2.4.39
बहुलं छन्दसि ॥
bahulaṃ chandasi
- 2.4.40
लिट्यन्यतरस्याम् ॥
liṭyanyatarasyām
- 2.4.41
वेञो वयिः ॥
veño vayiḥ
- 2.4.42
हनो वध लिङि ॥
hano vadha liṅi
- 2.4.43
लुङि च ॥
luṅi ca
- 2.4.44
आत्मनेपदेष्वन्यतरस्याम् ॥
ātmanepadeṣvanyatarasyām
- 2.4.45
इणो गा लुङि ॥
iṇo gā luṅi
- 2.4.46
णौ गमिरबोधने ॥
ṇau gamirabodhane
- 2.4.47
सनि च ॥
sani ca
- 2.4.48
इङश्च ॥
iṅaśca
- 2.4.49
गाङ् लिटि ॥
gāṅ liṭi
- 2.4.50
विभाषा लुङ्लृङोः ॥
vibhāṣā luṅlṛṅoḥ
- 2.4.51
णौ च संश्चङोः ॥
ṇau ca saṃścaṅoḥ
- 2.4.52
अस्तेर्भूः ॥
asterbhūḥ
- 2.4.53
ब्रुवो वचिः ॥
bruvo vaciḥ
- 2.4.54
चक्षिङः ख्याञ् ॥
cakṣiṅaḥ khyāñ
- 2.4.55
वा लिटि ॥
vā liṭi
- 2.4.56
अजेर्व्यघञपोः ॥
ajervyaghañapoḥ
- 2.4.57
वा यौ ॥
vā yau
- 2.4.58
ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ॥
ṇyakṣatriyārṣañito yūni lugaṇiñoḥ
- 2.4.59
पैलादिभ्यश्च ॥
pailādibhyaśca
- 2.4.60
इञः प्राचाम् ॥
iñaḥ prācām
- 2.4.61
न तौल्वलिभ्यः ॥
na taulvalibhyaḥ
- 2.4.62
तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥
tadrājasya bahuṣu tenaivāstriyām
- 2.4.63
यस्कादिभ्यो गोत्रे ॥
yaskādibhyo gotre
- 2.4.64
यञञोश्च ॥
yañañośca
- 2.4.65
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥
atribhṛgukutsavasiṣṭhagotamāṅgirobhyaśca
- 2.4.66
बह्वचः इञः प्राच्यभरतेषु ॥
bahvacaḥ iñaḥ prācyabharateṣu
- 2.4.67
न गोपवनादिभ्यः ॥
na gopavanādibhyaḥ
- 2.4.68
तिककितवादिभ्यो द्वन्द्वे ॥
tikakitavādibhyo dvandve
- 2.4.69
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥
upakādibhyo'nyatarasyāmadvandve
- 2.4.70
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥
āgastyakauṇḍinyayoragastikuṇḍinac
- 2.4.71
सुपो धातुप्रातिपदिकयोः ॥
supo dhātuprātipadikayoḥ
- 2.4.72
अदिप्रभृतिभ्यः शपः ॥
adiprabhṛtibhyaḥ śapaḥ
- 2.4.73
बहुलं छन्दसि ॥
bahulaṃ chandasi
- 2.4.74
यङोऽचि च ॥
yaṅo'ci ca
- 2.4.75
जुहोत्यादिभ्यः श्लुः ॥
juhotyādibhyaḥ śluḥ
- 2.4.76
बहुलं छन्दसि ॥
bahulaṃ chandasi
- 2.4.77
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ॥
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu
- 2.4.78
विभाषा घ्राधेट्शाच्छासः ॥
vibhāṣā ghrādheṭśācchāsaḥ
- 2.4.79
तनादिभ्यस्तथासोः ॥
tanādibhyastathāsoḥ
- 2.4.80
मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ॥
mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ
- 2.4.81
आमः ॥
āmaḥ
- 2.4.82
अव्ययादाप्सुपः ॥
avyayādāpsupaḥ
- 2.4.83
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ॥
nāvyayībhāvādato'mtvapañcamyāḥ
- 2.4.84
तृतीयासप्तम्योर्बहुलम् ॥
tṛtīyāsaptamyorbahulam
- 2.4.85
लुटः प्रथमस्य डारौरसः ॥
luṭaḥ prathamasya ḍāraurasaḥ