फिट्सूत्राणि Phiṭsūtrāṇi
The accent of nominal stems.
Rules for the Vedic accent of noun stems (phiṭ is their word for a stem). Attributed to Śāntanava, not to Pāṇini. Four quarters.
Text from the data of ashtadhyayi.com (version db9a7f1 2026-11-19), with thanks. IAST by machine transliteration. The descriptions are mine.
The first quarter
- 1.1
फिषोऽन्त उदात्तः ॥
phiṣo'nta udāttaḥ
- 1.2
पाटलापालङ्काम्बासागरार्थानाम् ॥
pāṭalāpālaṅkāmbāsāgarārthānām
- 1.3
गेहार्थानामस्त्रियाम् ॥
gehārthānāmastriyām
- 1.4
गुदस्य च ॥
gudasya ca
- 1.5
ध्यपूर्वस्य स्त्रीविषयस्य ॥
dhyapūrvasya strīviṣayasya
- 1.6
खान्तस्याश्मादेः ॥
khāntasyāśmādeḥ
- 1.7
बंहिष्ठवत्सरतिशत्थान्तानाम् ॥
baṃhiṣṭhavatsaratiśatthāntānām
- 1.8
दक्षिणस्य साधौ ॥
dakṣiṇasya sādhau
- 1.9
स्वाङ्गाख्यायामादिर्वा ॥
svāṅgākhyāyāmādirvā
- 1.10
छन्दसि च ॥
chandasi ca
- 1.11
कृष्णस्यामृगाख्या चेत् ॥
kṛṣṇasyāmṛgākhyā cet
- 1.12
वा नामधेयस्य ॥
vā nāmadheyasya
- 1.13
शुक्लगौरयोरादिः ॥
śuklagaurayorādiḥ
- 1.14
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः ॥
aṅguṣṭhodakabakavaśānāṃ chandasyantaḥ
- 1.15
पृष्ठस्य च ॥
pṛṣṭhasya ca
- 1.16
अर्जुनस्य तृणाख्या चेत् ॥
arjunasya tṛṇākhyā cet
- 1.17
अर्यस्य स्वाम्याख्या चेत् ॥
aryasya svāmyākhyā cet
- 1.18
आशाया अदिगाख्या चेत् ॥
āśāyā adigākhyā cet
- 1.19
नक्षत्राणामाब्विषयाणाम् ॥
nakṣatrāṇāmābviṣayāṇām
- 1.20
न कुपूर्वस्य कृत्तिकाख्या चेत् ॥
na kupūrvasya kṛttikākhyā cet
- 1.21
घृतादीनां च ॥
ghṛtādīnāṃ ca
- 1.22
ज्येष्ठकनिष्ठयोर्वयसि ॥
jyeṣṭhakaniṣṭhayorvayasi
- 1.23
बिल्वतिष्ययोः स्वरितो वा ॥
bilvatiṣyayoḥ svarito vā
The second quarter
- 2.1
अथादिः प्राक् शकटेः ॥
athādiḥ prāk śakaṭeḥ
- 2.2
हस्वान्तस्य स्त्रीविषयस्य ॥
hasvāntasya strīviṣayasya
- 2.3
नब्विषयस्यानिसन्तस्य ॥
nabviṣayasyānisantasya
- 2.4
तृणधान्यानां च द्व्यषाम् ॥
tṛṇadhānyānāṃ ca dvyaṣām
- 2.5
न्रः सङ्ख्यायाः ॥
nraḥ saṅkhyāyāḥ
- 2.6
स्वाङ्गशिटामदन्तानाम् ॥
svāṅgaśiṭāmadantānām
- 2.7
प्राणिनां कुपूर्वम् ॥
prāṇināṃ kupūrvam
- 2.8
खय्युवर्ण कृत्रिमाख्या चेत् ॥
khayyuvarṇa kṛtrimākhyā cet
- 2.9
उनर्वन्नन्तानाम् ॥
unarvannantānām
- 2.10
वर्णानां तणतिनितान्तानाम् ॥
varṇānāṃ taṇatinitāntānām
- 2.11
हस्वान्तस्य हस्वमनृताच्छील्ये ॥
hasvāntasya hasvamanṛtācchīlye
- 2.12
अक्षस्यादेवनस्य ॥
akṣasyādevanasya
- 2.13
अर्धस्यासमद्योतने ॥
ardhasyāsamadyotane
- 2.14
पीतद्र्वर्थानाम् ॥
pītadrvarthānām
- 2.15
ग्रामादीनां च ॥
grāmādīnāṃ ca
- 2.16
लुबन्तस्योपमयनामधेयस्य ॥
lubantasyopamayanāmadheyasya
- 2.17
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् ॥
na vṛkṣaparvataviśeṣavyāghrasiṃhamahiṣāṇām
- 2.18
राजविशेषस्य यमन्वा चेत् ॥
rājaviśeṣasya yamanvā cet
- 2.19
लघावन्ते द्वयोश्च बह्वषो गुरुः ॥
laghāvante dvayośca bahvaṣo guruḥ
- 2.20
स्त्रीविषयवर्णक्षुपूर्वाणाम् ॥
strīviṣayavarṇakṣupūrvāṇām
- 2.21
शकुनीनां च लघु पूर्वम् ॥
śakunīnāṃ ca laghu pūrvam
- 2.22
नर्तुप्राण्याख्यायाम् ॥
nartuprāṇyākhyāyām
- 2.23
धान्यानां च वृद्धक्षान्तानाम् ॥
dhānyānāṃ ca vṛddhakṣāntānām
- 2.24
जनपदशब्दानामषान्तानाम् ॥
janapadaśabdānāmaṣāntānām
- 2.25
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा ॥
hayādīnāmasaṃyuktalāntānāmantaḥ pūrvaṃ vā
- 2.26
इगन्ताना च द्व्यषाम् ॥
igantānā ca dvyaṣām
The third quarter
- 3.1
अथ द्वितीयं प्रागीषात् ॥
atha dvitīyaṃ prāgīṣāt
- 3.2
त्र्यचा प्राङ्मकरात् ॥
tryacā prāṅmakarāt
- 3.3
स्वाङ्गानामकुर्वादीनाम् ॥
svāṅgānāmakurvādīnām
- 3.4
मादीनां च ॥
mādīnāṃ ca
- 3.5
शादीनां शाकानाम् ॥
śādīnāṃ śākānām
- 3.6
पान्तानां गुर्वादीनाम् ॥
pāntānāṃ gurvādīnām
- 3.7
युतान्यण्यन्तानाम् ॥
yutānyaṇyantānām
- 3.8
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा ॥
makaravarūḍhapārevatavitastekṣvārjidrākṣākalomākāṣṭhāpeṣṭhākāśīnāmādirvā
- 3.9
छन्दसि च ॥
chandasi ca
- 3.10
कर्दमादीनां च ॥
kardamādīnāṃ ca
- 3.11
सुगन्धितेजनस्य ते वा ॥
sugandhitejanasya te vā
- 3.12
नपः फलान्तानाम् ॥
napaḥ phalāntānām
- 3.13
यान्तस्यान्त्यात्पूर्वम् ॥
yāntasyāntyātpūrvam
- 3.14
थान्तस्य च नालघुनी ॥
thāntasya ca nālaghunī
- 3.15
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च ॥
śiśumārodumbarabalīvardoṣṭrārapurūravasāṃ ca
- 3.16
साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम् ॥
sāṅkāśyakāmpilyanāsikyadārvāghāṭānām
- 3.17
ईषान्तख्य हयादेरादिर्वा ॥
īṣāntakhya hayāderādirvā
- 3.18
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् ॥
uśīradāśerakapālapalālaśaivālaśyāmākaśārīraśarāvahṛdayahiraṇyāraṇyāpatyadevarāṇām
- 3.19
महिष्याषाढयोर्जायेष्टकाख्या चेत् ॥
mahiṣyāṣāḍhayorjāyeṣṭakākhyā cet
The fourth quarter
- 4.1
शकटिशकट्योरक्षरमक्षरं पर्यायेण ॥
śakaṭiśakaṭyorakṣaramakṣaraṃ paryāyeṇa
- 4.2
गोष्ठजस्य ब्राह्मणानामधेयस्य ॥
goṣṭhajasya brāhmaṇānāmadheyasya
- 4.3
पारावतस्योपोत्तमवर्जम् ॥
pārāvatasyopottamavarjam
- 4.4
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ॥
dhūmrajānumuñjakeśakālavālasthālīpākānāmadhūjalasthānām
- 4.5
कपिकेशहरिकेशयोश्छन्दसि ॥
kapikeśaharikeśayośchandasi
- 4.6
न्यङ्स्वरौ स्वरितौ ॥
nyaṅsvarau svaritau
- 4.7
न्यर्बुदव्यल्कशयोरादि ॥
nyarbudavyalkaśayorādi
- 4.8
तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्त ॥
tilyaśikyamatyakārṣmaryadhānyakanyārājanyamanuṣyāṇāmanta
- 4.9
बिल्वभक्ष्यवीर्याणि च्छन्दसि ॥
bilvabhakṣyavīryāṇi cchandasi
- 4.10
त्वत्त्वसमसिमेत्यनुच्चानि ॥
tvattvasamasimetyanuccāni
- 4.11
सिमस्याथर्वणेऽन्त उदात्तः ॥
simasyātharvaṇe'nta udāttaḥ
- 4.12
निपाता आद्युदात्ताः ॥
nipātā ādyudāttāḥ
- 4.13
उपसर्गाश्चाभिवर्जम् ॥
upasargāścābhivarjam
- 4.14
एवादीनामन्तः ॥
evādīnāmantaḥ
- 4.15
वाचादीनामुभावुदात्तौ ॥
vācādīnāmubhāvudāttau
- 4.16
चादयोऽनुदात्ताः ॥
cādayo'nudāttāḥ
- 4.17
यथेति पादान्ते ॥
yatheti pādānte
- 4.18
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः ॥
prakārādidviruktau parasyānta udāttaḥ
- 4.19
शेषं सर्वमनुदात्तम् ॥
śeṣaṃ sarvamanudāttam